________________
'निर्विण्णः' । २।३ । ८९ ॥ गतिकारकेतिन्यायाद् “ रेषवर्णा० " इति सिद्धमेव किमनेन ? सत्यम् , अनेन न्यायेन निविण्णवानित्यत्राऽपि स्यात् तन्निवृत्त्यर्थमिदम् । एते त्रयोऽपि धातूनामनेकार्थत्वाद्वैराग्ये वर्तन्ते । निर्विण्ण इति-विदक ज्ञाने इत्यस्य सेट्त्वान्न । अलचटेति व्यावृत्त्या चाऽप्राप्तौ क्तनकारस्य णत्वं निपात्यते, धातुनकारस्य तु “ तेवर्गस्य० " इति ।
'न ख्यापूरभूभाकमगमप्यायवेपो णेश्च'।२।३ । ९० ॥ख्या इति निरनुबन्धोपादानं ख्यादेशस्य ख्यांक प्रथन इत्यस्य च परिग्रहार्थम् । नित्यमिति" स्वरात् ” इत्यनेन। वेपो विकल्पेनेति-" व्यञ्जनादेर्नाम्युपा०" इत्यनेन ण्यन्तेभ्य. थेति-" णेर्वा " इत्यनेन ।
'देशेऽन्तरोऽयनहनः' । २।३ । ९१ ॥ स्वरादिति हन इति च यथासंख्यं 10 प्राप्ते प्रतिषेधः । अन्तर्षण इति-" हेनोऽन्तर्घनान्त० " इत्यलन्तो निपात्यते । वाहीकेषु देशविषयस्येयं संज्ञा । प्रायणोदेश इति-इंदु, इंण्क् वा, प्रेयतेऽस्मिन्नित्यनटि " स्वरात् " इति णत्वे । अयतौ तु " उपसर्गस्याऽयौ ” इति लत्वं स्यात् ।
'षात् पदे । २।३ । ९२ ।। सर्पिष्पानमिति-नन्वत्र षकाराश्रितं मा भृण्णत्वं सर्पिस्थरेफाश्रितं कथं नहि ? उच्यते-यत्रोत्पद्यमानस्य णत्वस्य निमित्तद्वयं भवति तत्र 15 प्रत्यासत्याऽनन्तरमेव गृह्यत इति । सर्पिष्केणेति-सर्पिष्कायतीति सर्पिस् , अम् का धातुः अग्रे इति स्थिते क इत्यस्याऽविभक्त्यन्तत्वात् पदत्वाभाव इति नाऽनेनत्वप्रतिषेधः । ननु उत्तरपदमपि पदमुच्यते यथा “ वेदूतोऽनव्यय." इत्यत्र पदे इत्युक्तेऽपि उत्तरपदे इति वृत्तिकृता व्याख्यातम् , तद्वदिहाऽपि पदे इत्युक्ते उत्तरपदमपि लप्स्यते तत्कथं सर्पिष्केणेत्यत्र व्यावृत्तिः ?, सत्यम् ; 'नाऽनिष्टार्था शास्त्रप्रवृत्तिः' इतिन्यायादेवंविधं 20 व्याख्यानं न सर्वत्राऽपि युक्तं किन्वभिप्रेतसिद्ध्यर्थ क्वचिदेव । यदा तु कुत्सिताद्यर्थे कप् तदा निर्विवादमेव ।
'पदेऽन्तरेऽनाड्यतद्धिते' । २ । ३ । ९३ ॥ चतुरङ्गयोगेन-अत्र " कवगैंक० " इति प्राप्तं निषिध्यते । माषकुम्भस्य वापः माषस्य कुम्भवाप इत्यस्मिश्च वाक्ये " वृत्त्यन्तोऽसषे” इति पदसंज्ञानिषेधेऽपि भूतपूर्वक पदत्वमाश्रीयते । कवगैंक- 25 स्वरवतीति-कवर्गाशेन विशेषविहितत्वान्न तु " वोतर०" इति विकल्पः।
'क्षुभ्नादीनाम् ।। २।३ । ९६ ॥ क्षुम्नेति लुप्ततिनिर्देशेन धातुग्रहणं न तु
१२-३-६३ । २ १-३-६० । ३२-३-८५ । ४२-३-८७ । ५५-३-३४ । ६ २-३-१००। ७२-४-९८ । ८२-३-७६ । ९ १-१-२५ । १० २-३-७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org