________________
- 'नशः शः'।२।३ । ७८ ॥ प्रनष्ट इति-अत्र “ नशोऽधुटि " इति नागमस्य "नो व्यञ्जनस्य." इति लुक् । प्रनयतीत्यादि-अत्र परेऽसदित्यन्तरङ्गत्वात् पूर्व कृतमपि णत्वं षत्वादावसत्वात् पत्वे कृतेऽप्येकदेशविकृतस्याऽनन्यत्वात् प्राप्तमपि श इति वचनात् साक्षाच्छकारान्तत्वाभावात् निवत्येते । __ 'नेादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यति- 5 हन्तिदेग्धौ'।२।३ । ७९ ॥ न मातीत्यादि-नन्वेषां मारूपाभावाद्हणाशङ्काऽपि कुतः १ उच्यते-" मिग्मिगोऽखलचलि " इत्यनेनाऽऽत्वविधानात् । नाऽनुबन्धनार्थ इति-यया रीत्या धातुपाठे माङित्यपाठि तद्रीत्या यदि सूत्रेऽपि क्रियेत तदाऽनुबन्धार्थः स्यात् । अत्र तु विशेषणं उकारेणोपलक्षितो मा इति । ननु " सप्तम्या निर्दिष्टे पूर्वस्य " तच्चाऽनन्तरस्य न व्यवहितस्येति न्यायात् प्रण्यास्यतीत्यादावाङा 10 व्यवधाने न प्राप्नोतीत्याह-आङा व्यवधानेऽपीति-अयमर्थः " पदेन्तरे०" इति णत्वनिषेधकसूत्रे आङो वर्जनादाङा व्यवधानेऽपि भवति ।
'अकखाद्यपान्ते पाठे वा' । २ । ३ । ८० ॥ अत्राऽकखादिषान्त इति सिद्धे नद्वयं सुखार्थ, नद्वये हि सति कखादेः पान्तस्य च वर्जनं प्रतीयते । एकस्मिस्तु कखादेः किंविशिष्टस्य पान्तस्येति प्रतीतिः स्यात् । असम्भवात् न भविष्यतीति 15 न वाच्यम् । कषशिषेत्यादावेवं विधस्याऽपि दर्शनात् । सौत्रेषु पाठादिति-ननु स्तम्भेर्धातुष्वपाठात् कथं पाठविषयत्वं ? उच्यते-सूत्राणां सूत्रमेव धातूपदेशः । प्रनिवेटेति-'विशंत् ' प्रवेशने, इत्यस्य रूपम् ।
'द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा'।२।३। ८१ ॥ प्राणिणिषतीत्यादौ द्वयोरप्यनेनैव णत्वं द्वित्व इति वचनात् । हे प्राण !-अन्ते " नाऽऽमन्त्र्ये” इति न... लोपप्रतिषेधात् नान्तत्वं सम्भवतीत्यामध्ये दर्शितम् । ननु द्वित्वेऽपि कृतेऽन्तेऽपीति वचनादन्तेऽपि शब्दादनन्तेऽपि भविष्यति किं द्वित्वेऽपीत्यनेन ? नैवम् , द्वित्वेऽपीत्यस्याऽभावे प्राणिणिपतीत्यत्र प्रथमनकारेऽन्तेऽपीत्यस्य चरितार्थत्वाद्वितीयनकारस्य णत्वं न स्यात् । टवर्गेण व्यवधानात् । अन्तेऽपीत्यत्रापि शब्दाभावे द्वित्वेऽप्यन्त एव स्यादिति । ननु द्वित्वे सत्यन्तस्थो नकारः क्व सम्भवति ? उच्यते-प्राणितेः सनि प्राणिणिपन्तं प्रयुङ्क्ते णिगि अल्लोपे क्विपि प्राणिणिषमाचष्टे णिजि पुनः " त्र्यन्त्यस्वरादेः" इत्यनेन इसिति लोपे क्विपि हे प्राणिण ? इत्यादावामन्यत्वाच्च न लोपाभावे प्राणिणिषन्तीत्याद्यनन्तेऽपि ।
20
25
१ ४-४-१०९ । २४-२-४५। ३ ४-२-८।४ २-३-१३ । ५ २-१-९२ । ६ ७-४-४३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org