________________
(१४८ ) 'वाह्याद्वाहनस्य' ।२।३ । ७२ ॥ वोढव्यं वाह्यमिति-वहेरहेऽर्थे ध्याणि वाह्यं वहनाईमिवादि तेन यदापि वाहने वहनार्थमित्वादि वाह्यं नाऽऽरोपितं भवति तदर्थ तु केवलमुपकल्पितं भूतलस्थं तदापि भवत्येव ।
_ 'अतोऽहस्य' । २ । ३ । ७३ ॥ दीर्घाही शरदिति-दीर्घाही, दीर्घाहाः, दीर्घाहा 5 रूपत्रितयम् ।
'वोत्तरपदान्तनस्यादेरयुवपक्काहः'।२।३ । ७५॥ प्राप्ताप्राप्तविभाषेयम्। तथाहि-लिखितेषु प्रयोगेषु “गतिकारक०" इति न्यायात् स्याद्युत्पत्तेः प्रागेव समास इत्येकपदात्प्राप्ते व्याघ्रीवत्पामा येषां तानि व्याघ्रीपामाणि व्याघ्रीपामानि वेत्यादिषु
त्वदर्शितेष्वप्राप्ते । पाणिनिस्त्वप्राप्ते विभाषां मन्यते । तन्मतेऽपि वापोऽस्त्यनयोपिनौ 10 वीहीणां वापिनाविति यदा क्रियते तदाऽप्राप्ते । अत्रोत्तरपदस्यान्तो नकारो न
भवतीति-किन्तु " प्रत्ययः प्रकृत्यादेः" इति न्यायेन गर्गभग इत्यस्य समुदायस्यैव । ध्यहि-चतुरहीति अनयोर्भवेऽर्थेऽग्विषये “ सर्वाश० " इत्यनेनाऽद् अह्लादेशश्च । गर्दभवाहिनाविति-गर्दभान् वाह्यत इत्येवंशीलौ ।
'कगैंकस्वरवति' । २।३। ७६ ॥ न चेदिति-सत्यपि त्रितयानुवर्तने 15 प्रतिषेधस्य प्राप्तिपूर्वकत्वात् कवर्गवचात् पक्कशब्दस्यैव प्रतिषेध इति । स्वर्गकामिणा
विति-सुखेन पुण्यकर्मभिरर्यत इति पनि न्यवादित्वाने तं कामयेते इत्यवंशीलौ । मोक्षकामिणाविति-मुच्यन्ते प्राणिनः कर्ममलकलङ्केनाऽत्रेति " मावावद्यमि० ” इति से । नित्यार्थमिति-अयमर्थः “ गतिकारक०" इति न्यायेन निमित्तनिमित्तिनोरे
कपदस्थत्वाद् " रंपृवर्णा०" इति नित्यं प्राप्त “ वोत्तर० ” इति विकल्पितं पुनर20 नेन नित्यं विधीयते इत्यर्थः।।
__'अदुरुपसर्गान्तरो णहिनुमीनानेः' । २।३ । ७७ ॥ हिनुमीनानिग्रहणात् समासस्याऽसम्भवात् पूर्वपदस्थादित्यस्य निवृत्तावविशेषेणोपसर्गात् णत्वविधिः । हिनुमीनाग्रहण इति-अथ प्रहिणोति प्रमीणीत इत्यत्र गुणे ईकारे च कृते हिनुमीने
त्येतद्पविरहात् स्थानीवेत्यस्याऽप्यसद्विधौ स्वरस्य स्थानिवद्भावप्रतिषेधात् कथं ण२ त्वमित्याह-विकृतस्याऽपीति । प्रवपानि मांसानीति-उप्यत इति वपा भिधाधछ । आ
नीत्यर्थवत इति-वपानीति समुदायस्याऽर्थवत्त्वादानीत्यस्य पृथगर्थाभावादनर्थकत्वमुपसर्गत्वाभावाद्वा । अत एव प्रवृद्धा इति विग्रहो वृत्तौ दर्शितः।
१३-२-८५ । २ ७-३-११८ । ३ उणा० ५६४ । ४ ३-२-८५ । ५२-३-६३ । ६२-३-७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org