________________
( १४७ ) फलं चोपगच्छन्ति पुष्पफलोपगा: “ नाम्नो गमः० " इति डे-वृक्षाः पुष्पफलोपगा इति । न चोभयमेवोपगच्छन्ति त एव वृक्षाः किं तर्हि ? येऽप्यन्यतरत् पुष्पं फलं वोपगच्छन्ति तेऽपि वृक्षा एव । तत्र वेतसादयः पुष्पमेव प्लक्षादयः फलमेवाऽऽम्रादयस्तूभयमप्युपगच्छन्ति । तत्र वृक्षो वनस्पतित्वमवकेशित्वं च न व्यभिचरति । वनस्पतिरवकेशी तु वृक्षत्वं व्यभिचरतः । यतः " फली वनस्पतिज्ञेयः फलवन्ध्यस्त्व. 5 वकेशी" इति । अत एव च वनस्पत्यादिग्रहणमकृत्वा वृक्षग्रहणं कृतं तदन्तर्गतत्वादनस्पत्यादेरिति । विदारी-लताविशेषः ।
'गिरिनद्यादीनाम् ।२।३ । ६८॥ तूर्यमाण इति-तूर्य मानमस्येति वाक्ये निमित्तनिमित्तिनोरेकपदस्थत्वाभावादप्राप्ते विकल्पः। तूर्यतेस्त्वानशिश्ये मागमे च " रवर्णा० " इति नित्यं प्राप्ते । शिक्षादित्वादिति-अन्यथा बहुस्वरत्वात् प्रायो बहु- 10 स्वरादिकण् स्यात् ।
'पानस्य भावकरणे' । २ । ३ । ६९ ॥ सौवीरपाणमिति-सौवीरेषु प्रायो भवं बाहुलकादकनं बाधित्वा भवेऽण् । सुवीराणामिदं “ तस्येदम् " इति वा । । 'देशे'। २।३। ७० ॥ योगविभागादिति-अन्यथा 'पानस्य भावकरणदेशे' इति क्रियेत । तथाऽत्र कर्मसाधनः पानशब्दो गृह्यते, भावकरणप्रधानस्य तु पूर्वेण 15 विकल्प एव उशीनरा इति-उश्यत इति “ स्थादिभ्यः कः" वष्टीति क्विपि रवृति गौरादित्वाद् यामुशी नगरी तस्या नराः । गान्धारयः-गन्धारस्याऽपत्यं वृद्धमत इब् गान्धारिः राष्ट्रक्षत्रियसरूपः ततो गान्धारीणां राजानः, गान्धारे राज्ञोऽपत्यानि वा " गान्धारिसास्वेयाभ्याम् " " यत्रऽओऽश्या० " इति बहुष्वस्त्रियां लुप् । ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते । तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव 20 तत्कथमिह देशो गम्यत इत्याह-तात्स्थ्यादित्यादि । अयमर्थः-उशीनरादयो हि शब्दाः संज्ञात्वेन पूर्व देशेष्वेव प्रवृत्ताः पश्चात्तु तत्स्थानसम्बन्धात् मनुष्येषु तेन मनुष्याभिधानेऽपि तेन मनुष्यदेशाभिधानं गम्यते, दाक्षीणां पानमिति-अत्र कर्तरि षष्ठी।
'ग्रामामात् नियः ।।२।३।७१ ॥ ननु "गतिकारक०" इति न्यायाद्विभक्त्युत्पत्तेः प्रागेव समासे निमित्तनिमित्तिनोरेकपदस्थत्वात् " रघुवर्णा ० " इत्यनेनैव 25 णत्वं सिद्धमेव किमनेनेति ? सत्यम् , नियमार्थं यदि नियो णत्वं स्यात्तदा ग्रामापादेव तेन खरनीमेपनीत्यादौ पूर्वेणाऽपि न भवति ।
१ ५ -१-१३१ । २ २-३-६३ । ३६-३-१६० । ४ ५-३-८२ । ५ ६-१-११५ । ६६-१-१२६ । ७ ३-२-८५। ८२-३-६३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org