________________
( १४६ ) द्रमे "मुरल०" इति निपातनात् , डित्यले । ऋषीणामित्यादौ दीर्घरूपे स्यादिविधौ कर्तव्ये पूर्वकृतमपि णत्वमसिद्धं भवति । ___ 'पूर्वपदस्थात् नामन्यगः'। २।३ । ६४ ॥ सामर्थ्यादिति-अयमर्थः रूढेन पूर्वपदशब्देन उत्तरपदमाक्षिप्यते, तदन्तरेण तस्याऽसम्भवात्तच्च नकारस्य विशेषणम् । 5 पुष्पणन्दीति-पुष्पच् पुष्प्यन्तीत्यचि पुष्पाणि नन्दयति अण, डी, पुष्पणन्दी आचार्यः। वत्सऋपभकार्पटैनिश्चिक्ये, दिगम्बरेण तु योपान्त्यः, स च न शिष्टसम्मतः । वाधीणस:-वध्रस्येयं तस्येदमण ङीः। " तद्धितस्वरे." इति पुंवन्निषेधः। ऋगयनमितिशिक्षादिषु ऋगयनपाठादेव णत्वनिषेधे सिद्धे किमग इत्यनेन ? सत्यम् , अबाधकान्य
पि ज्ञापकानि भवन्ति । उत्तरपदसम्बन्धी नकारो न भवतीति-" प्रत्ययः प्रकृत्यादेः" 10 इति न्यायात् । पूर्वेणैव णत्वमिति-ननु पूर्वेणाऽपि कथं यतः खरपशब्दस्याऽन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वमस्ति, तत्स्थत्वाद्रेफस्य चेत्येकपदत्वाभावादिति । अत्रोच्यतेयत्र द्वावपि निमित्तनिमित्तिनावेकपदत्वं व्यभिचरतस्तत्र णत्वाभाव इह तु रेफस्य व्यभिचारेऽपि नकारस्यैकपदस्थत्वाव्यभिचारः । यद्वा सित्येवेति नियमेनायनण्प्रत्यये खरपशब्दस्य पदत्वस्य निरस्तत्वात् पूर्वेण भवत्येव । मनोहरा-वृक्षविशेषाः ।
'निष्प्राग्रेऽन्तःखदिरकााम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य' ।२। ३।६६ ॥ निष्प्रान्तरो नौषधिवचना नाऽपि वृक्षवचनाः तेभ्यः संज्ञायां कोटरादिनियमेन व्यावर्णितत्वादप्राप्तं णत्वं विधीयते । असंज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षुशरशब्दावौषधिवचनौ शेषा वृक्षवचनास्तेषां संज्ञायां कोटरादिनियमेन
णत्वस्य व्यावर्तितत्वादुत्तरेणाऽप्राप्ते विध्यर्थ, असंज्ञायां तूत्तरेण विकल्पे प्राप्ते नित्या20 र्थम् । कार्यवर्णमिति-कार्यशब्दो वृक्षविशेषवाची अव्युत्पन्नोऽथवा कृष्यते " नाम्यु
पान्त्य०" इति के व्यणि धर्मधर्मिणोरभेदोपचारात् कार्यगुणयुक्तो वृक्षोऽपि कार्यः । पीयुक्षेति-पीयुक्षाशब्दो द्राक्षापर्यायो द्राक्षाविशेषो वा । पीङ्च क्विपि पीः पियं याति " पीमृग० ” इति किदुः, पीयुं क्षायति “ आतो डो० ” इति डः ।
‘द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः' । २ । ३।६७ । कोद्र25 ववणमिति-केनाऽम्भसा उद्यन्ते-क्लिद्यन्ते ""कैरव०” इति साधुः केनोद्भवन्त्युच्छब्दा
यन्तेऽचि वा । लता वल्लीकर्कोट्यादिका, गुल्मा इस्वस्कन्धास्तरवो बहुकाण्डपत्राः केतक्यादयः, एतल्लतागुल्मरूपं द्वयं वीरुधः । उत्पलस्त्वेवं व्याचष्टे-लता गुल्मास्तेभ्यो विलक्षणा वीरुधः । पुष्पं विना फलमेव यस्य स प्लक्षादिः फली । पुष्पं च
15
१२-४-९२ । २ ५-१-५४ । ३ उणा० ७४१ । ४ ५-१-७६ । ५ उणा० ५१९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org