________________
नियमबाधनार्थमिति - सेनेस्तु नास्तीति ।
(
"
अवाचाश्रयोर्जाविदूरे
66
"
२ । ३ । ४२ ।। समुदायानुवृतावपि व्यभिचारादङ इत्यस्यैव ग्रह इत्याह- अडे इति - दुर्गमिति - दुःखेन गम्यतेऽस्मिन्निति । सुगदुर्गमाधारे " इति सिद्धिः । कर्मव्युत्पत्तौ तु खलस्यात् अनित्यार्थमिति - यद्येवं 5 तर्हि वोपादित्येवंविधमतः सूत्रात् पृथगेव कथं न कृतं ? सत्यम्, विचित्रा सूत्रकृतिः । 'सदोsप्रतेः परोक्षायां त्वादेः ' | २ | ३ | ४४ || उपसर्गादित्यनुवर्तते, व्यवादित्यनुवृत्तौ तु तयोरेव विधानात् प्रतिवर्जनानर्थक्यं स्यात् ।
( १४३
" णिस्तोरेव ० " इति सिद्धं तिष्ठतेस्तु सन् षत्वरूपो
6
स्वञ्जश्च ' । २ । ३ । ४५ ।। अभिषिष्वं क्षत इति - नन्वत्र " णिस्तोरेव " इति नियमात् मूलधातुसकारस्य पत्वं न प्राप्नोति । उच्यते - स्पर्धे पर इति न्यायादिद - 10 प्रवर्तते । अभिषवञ्ज इति अत्र " स्वजेनेवा " इति परोक्षायाः वा किचम् पक्षे किद्वद्भावान्न लोपाभावः ।
योगविभागादित्यादि - ननु योगविभागात्परोक्षायां त्वादेरिति नानुवर्तत इति कथं न विज्ञायते ? सत्यम्, व्याख्यानतो विशेषप्रतिपत्तिरिति ।
' परिनिवेः सेवः ' । २ । ३ । ४६ ।। सेव इति सामान्योक्तेऽपि वृङिति 15 गृह्यते । न तु ङिति । कृतस्येत्यनुवृत्तेः ।
I
G सयसितस्य ' । २ । ३ । ४७ ।। स्यते नियमार्थमिति - उद्योतकरस्त्वत्राऽहसिनोतेरेव ग्रहणं न्याय्यं सयेत्यनेन साहचर्यात् । किञ्च स्यतिग्रहणे नियमाता जायते, सिनोतिग्रहणे तु विध्यर्थता । विधिनियमसम्भवे च विधिरेव ज्यायान् । न च वाच्यमेकेनैव सितग्रहणेन स्यतिसिनोत्युभयस्योपादानाद्विध्यर्थता नियमार्थता - 20 sपि स्यादिति । यतोऽर्थैकत्वादेकवाक्यमिति केषांचिद्वाक्यलक्षणम् । अथैकत्वाच्च सयसित इति वाक्यसमाप्तौ स्यतिग्रहणार्थं वाक्यान्तरं करणीयं भवतीति सिनोतेरेव ग्रहणम् । मा विषसयदिति - विषयमाख्यत् “ णिज्बहुलं० " अत्र द्वित्वे कर्तव्ये " षमसत्० इत्यनेन षत्वनिवृत्तावन्यस्येति द्विर्वचनम् । व्यसयीयदिति-विषयमैच्छत् क्यन्, क्यनि ईः । पर्यसितायतेति परिषित इवाऽऽचरत् क्यङ् " " दीर्घश्चि० " इति दीर्घः । 23 असौङसिवूसहस्सटाम् | २ | ३ | ४८ || सो डेत्येतयोर्द्वन्द्वे पञ्चान्नञोऽन्यपदार्थे । “ सिवूसह० " लक्षणे बहुव्रीहौ कर्मधारये च पुनर्द्वन्द्वः ।
,,
66
१२-३-३७ । २४-३-२२ । ३ ३-४-४२ । ४ २-१-६० । ५४-३-१०८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org