________________
( १४२ ) 'निसस्तपेऽनासेवायाम् ' । २ । ३ । ३५ ॥ निरतपत्-अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे । " णषमसत् ” इत्यनेनाऽसिद्धम् । निस्तातप्तीति-अत्र भृशं निष्टपनीति वाक्यं कार्यम् । आभीक्ष्ण्ये त्वनासेवायामिति व्यावृत्त्यैव निरस्तत्वात अन्त्यत्वादप्राप्ते वचनम् ।
'घस्वसः' । २।३। ३६ ।। अत्र वसो भौवादिकस्य ग्रहः वसिक् आच्छादने इत्यस्य वृदभावेन नामिनः सस्थाऽसम्भवात् । अदाधनदाद्योरिति न्यायाद्वा । बहूंषीति-वसतीति क्विपि य्वृतिः उषः बहव उषो येषु तानि । अत्र नागमरूपे स्यादिविधौ प्रथमं कृतमपि पत्वं निवर्तत इति प्राग्नागमस्तस्मिश्च नामिनो व्यवधानेऽपि
शिड्नान्तरेऽपीति पत्वम् । 10 ‘णिस्तोरेवास्वदस्विदसहः षणि'।२।३ । ३७ ॥ प्रतीषिषतीति-अत्र
'इंण्क' गताविति लिख्यते तस्य च ज्ञानार्थत्वात् " सैनीङश्च" इति न गम्बादेशः । 'इंक' स्मरणे, 'इ' अध्ययने इत्यनयोस्तु अज्ञान इति विशेषणं नाऽसम्भवात् । अतोऽनयोर्गम्वादेशः प्राप्नोतीत्येतौ न लिख्यते । 'इंणक' गतावित्यस्याऽप्यज्ञानार्थत्वविव
क्षायामादेशप्राप्तिः । इंदु इत्यस्य तु ज्ञानार्थत्वविवक्षायामविवक्षायामपि नादेशः । 10 " इणिकोर्गाः" इत्यत इणिकोरेवाऽनुकृष्टत्वात् " सनीडश्चे "ति चकारेण । सोषुपिषत
इति-अत्र यङोऽकारस्य स्थानित्वेन न गुणः । तथा " नाम्यन्त० " इत्यस्यैवाऽयं नियमः, एतद्विषय एवाऽऽरम्भात् । _ 'सञ्जेर्वा' । २ । १ । ३८ ॥ इकारान्तनिर्देशादिति-अत एवेह इकार उच्चा
रणार्थो न क्वचिदपि विहितः ।। 20 'उपसर्गात् सुग्सुवसोस्तुस्तुभोऽट्याप्यद्वित्वे'। २।३ । ३९ ॥ ण्य
न्तानामिति-धात्वन्तरत्वादिति शेषः । अट्यपीति-विशेषविहितत्वेन पूर्व कृतमपि षत्वं परस्मिन्नडागमेऽसिद्धं स्यादिति । सौति सुवत्योरिति-''क' प्रसवैश्वर्ययोः इत्यनयोः । सूतिस्यत्योरिति-घूडौच पूडौक इत्यनयोः।
'स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि' ।२।३।४० ॥ अथ सुस्थितो 25 दुःस्थित इत्यादौ कथं षत्वाभावः ? उच्यते-उपसर्गप्रतिरूपका निपाता एते इत्युप
सर्गत्वाभावात्पत्वाभावः । ण्यन्तानामपीति-णिगः प्रागेवोपसर्गसम्बन्धात् । अपोपदेशार्थमिति-अपोपदेशत्वं च सह इनेन वर्तत इति व्युत्पत्तौ । सेर्वेति साधितस्याऽपि वा व्युत्पत्तिपक्षे । स्थासञ्जोरिति-उपसर्गस्थस्य नामिनोऽवर्णान्तेन द्विवचनेनेत्यर्थः ।
१ २-१-६० । २ ४-४-२५ । ३ ४-४-२३ । ४ २-३-१५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org