________________
10
( १४१) मदिवेः स्थस्य' । २।३ । ३० ॥ गोष्ठमिति-गावस्तिष्ठन्त्यस्मिन्निति " स्थादिभ्यः कः” इति कप्रत्ययः । अम्ब्यते अपह्नवकारितया घनि अम्बोऽपह्नवकर्ता तस्याऽयं कार्यभृतोऽणि आम्बोऽपहवरूपो धर्मस्तत्र तिष्ठतीत्यधिकरणे तु सर्वत्र " स्थादिभ्यः कः" शीशभूदमित्यनयोः " क शीशमि० ” इति, कौशेकु उद्भिद्विशेषः । " शङ्खः पत्रशिराजाले, संख्याकीलकशम्भुषु" सवनीयः सव्यः " य ऐञ्चाऽतः " मञ्जेः सौत्रस्य 5 " पैदिपठि० ” इति इप्रत्यये मञ्जिः। पूपवने इत्यस्मात् " ऐवः पुन च” इति पुञ्जः। स इवाऽऽचरति । “ कर्तुः किम् ” तस्य लुप् पुञ्जतीति " स्वरेभ्य इः” पुञ्जिः । _ 'निर्दुस्सोः सेधसन्धिसाम्नाम् ' ।२।३ । ३१ ॥ निर्गतः सेधात् । दुष्पेध इति दुष्टः सेधः, अत्र रेफस्य सकारेऽनेन शिऽन्तरत्वात् परसकारस्य पत्वे पूर्वसकारस्य च " सस्य शषौ" इति षत्वे निषेधादयः।
'प्रष्टोऽग्रगे'।२।३ । ३२॥ प्रतिष्ठते प्रष्ठः । “ उपसर्गादातो डः" न तु " स्थापा० " इति कस्तस्य नाम पूर्वाद्धातोर्विहितत्वान्नामग्रहणे च प्रायेणोपसर्गस्य न ग्रहणमित्यस्याऽर्थस्य ज्ञापयिष्यमाणत्वात् ।
'भीरुष्ठानादयः'।२।३। ३३ ।। सव्ये तिष्ठति “ सव्यात्स्थः ” इति डिति ऋप्रत्यये सव्येष्ट्र " तत्पुरुषे कृति " इति सप्तम्यलुप् । असौ सव्येष्ठा सारथिः। अन्ये 15 तृप्रत्ययान्तस्य च्छन्दोविषयत्वादाकारान्तः किवन्तोऽयमिति मन्यन्ते । तन्मते सव्येष्ठा इति विसर्गान्तः । “ तत्पुरुष कृती "त्यलुप् , परमेष्ठिन्नित्यत्र गणपाठसामर्थ्यादलुप् । गौरिषत्क:-गौर्या इव सक्थिनी यस्य स " सेकथ्यक्ष्णः " इति टः। "यापो बहुल." इति इस्वः । प्रतिस्नात्यस्यामिति “ स्थादिभ्यः” इति कप्रत्ययः । कुत्सिता प्रतिष्ठा नावः सेचिका ।
20 'हस्वान्नाम्नस्ति'। २।३ । ३४ ।। सर्पिष्ट इत्यत्र अहीयरुह इति तस् । निर्गतो वर्णाश्रमेभ्यो “ निशो गते ” यच् प्रत्ययः। अन्तरङ्ग इति-अयमर्थः परत्वात्पूर्वमपि प्लुते आमच्याद्याश्रयत्वेन बहिरङ्गत्वं प्लुतस्य-सर्पिस्तत्र-ननु सर्पिस्तत्रेत्यादौ "वेसुसोऽपेक्षयाम्" इति कखपफीति व्यावृत्यैव पत्वव्यावृत्तेः सिद्धत्वात्किमनेन ? नैवम् । अपेक्षायां प्राप्तिरनेन तु अनपेक्षायामपि शक्यते । यथा पश्याऽत्र सर्पिस्तत्र 25 यजुवर्तत इति ।
१५-३-८२ । २५-३-८२ । ३ ५-1-२८ । ४ उणा० ६०५ । ५ उणा० १२८ । ६५-१-११७ । ७ उणा० ६०६ । ८५-१-१२६ । ९५-१-१४२ । १० उणा० ८५५ । २१३-२-२० । १२ ७-३-१२६ । १३२-४-१९ । १४ ५-३-८२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org