________________
( १३९ ) करोति निःसर्पिःष्करोत्यत्र न सिध्यति, सर्पिः शब्दस्य करोतिक्रियायाश्च व्यपेक्षाया अभावादिति तदर्थमिदं ज्ञापकमिति भावः ।
'भ्रातुष्पुत्रकस्कादयः' ।२।३। १४ ॥ साद्यस्क्रः सद्यस्क्रीशब्दादेव प्रत्यये साद्यस्क्रस्य सिद्धत्वात् पृथगुपादानं प्रत्ययान्तरनिवृत्त्यर्थं तेन सद्यस्क्रिया भावः सद्यस्क्रीतेत्यत्र न सत्वम् । कौतस्कुत:-गणपाठादण् । अन्यथा " केही 5 मात्र०" इति त्यच् स्यात् । किञ्च तसन्तस्य प्रथमान्तत्वेन तत इति पञ्चम्यन्ताद्विधीयमानो न प्राप्नोति, केचित् त्वपञ्चम्यन्तादप्यणमिच्छन्ति । ततस्तन्मते न " तैत आगते " इत्यनेन वाऽण् । ननु द्वित्वे कृते एकपदत्वाभावात् कथं " तंत आगते " इत्यण् ? सत्यम् , भूतपूर्वकन्यायाद्भविष्यति । अहस्कर:-अहः किरति लिहायचितिकार्य कृगस्तु " अतः कृकमि०' इति सिद्धमेव । अयस्कान्तेति-कनै इत्यस्य रूपं कामयते- 10 स्तु " अतः कृकमि "इति सिद्धमेव कामयतेर्वा समस्तार्थमिह पाठः तेन परमायस्कान्त इत्यपि भवति । कस्क इति-यद्येवं कः कः कुत्र न घुघुरा(यित)यति धुरीघोरो घुरेत्सूकर इत्यादि कथं ? यतस्तत्रापि कस्क इति स्यात् ? सत्यम् परमताभिप्रायेण । ते हि भ्रातुष्पुत्र० इदं सूत्रं सन्धिविधौ विदधति ततो विरामे विवक्षिते सति "न सन्धिः” इत्यस्य प्रवृत्तेने सत्वम् ।
15 'नाम्यन्तस्थाकवर्गात्पदान्तःकृतस्य सः शिड्नान्तरेऽपि'। २।३। १५॥ अनुस्वारभवनानित्यत्वादन्तरङ्गत्वाचेत्यर्थः, बिसमिति-अव्युत्पन्नो ग्राह्यः ।
'समासेग्नेः स्तुतः' । २ । ३ । १६ ॥ असष इति वचनात् सकारस्य पदमध्यत्वं नास्तीति वचनम् ।
'ज्योतिरायुभ्यां च स्तोमस्य' । २ । ३ । १७ ॥ ज्योतिः स्तोमं दर्शय- 20 तीति ज्योतिः प्रदीपादिकसमूहं दर्शयतीत्यर्थः।। ___'मातृपितुः स्वसुः' २ । ३ । १८ ॥ अकृतत्वात् पदादित्वाचाऽप्राप्ते विधानम् । सूत्रत्वाद् “ आद्वन्द्वे " इति न प्रवर्तते ।
'अलपि वा।२।३ । १९ । पूर्वेणाऽप्राप्ते विभाषेयमारभ्यते । मातु:ध्वसेति-" शर्षसे शषसं वा " इति पाक्षिके रस्य सत्वे चातूरूप्यम् ।
'निनद्याः स्नातेः कौशले'।२३।२०॥ निष्ण इति, “उपसर्गादातोडोऽश्यः"
25
१६-३-१६ । २६-३-१४९ । ३२-३-५ । ४ ७-४-१११। ५३-२-३९ । ६१-३-६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org