________________
( १३५ )
"
66
गोदौ खलतिकं वनानीति - खलतीति " कुशिक ” इत्यादिना निपात्यत इत्याम्नायः । खलतिकाख्य पर्वतसमीपवर्तिवनानामपि खलतिक इत्याख्या । हरति रोगानिति 'रुहि ० " इति के हरीतकी । पञ्चालाश्च मथुरा च पञ्चालमथुरे । चीयत उपचीयते तृणैरिति चञ्चा । " चिमेर्डोचचौ० " अभिमतं रूपं यस्याऽभिमतं रूप्यते वा अभिरूप्यो मनुष्यश्वश्चैव अकिञ्चित्करत्वात् । अनुपततीति- अनुयात्यनुव्रजतीत्यर्थः । 5 अनुसर्त्तव्येति लिङ्गानि च संख्याश्च तास्ताच लिङ्गसंख्याश्च तासामुपादानं तस्य व्यवस्था साsनुसर्तव्या । नन्वाप इत्येकस्यामपि जलकणिकायां बहुवचनान्तोऽपशब्दः प्रयुज्यते, दारशब्दचैकस्यामपि योषिति पुंलिङ्गो बहुवचनान्तः । एवं गृहशब्दोऽप्ये. कस्मिन्नपि गृहे । एवं वर्षा इत्येकस्मिन्नपि ऋतौ । एवं पश्ञ्चाला इति बहुवचनान्तेनैकोऽर्थ उच्यते जनपदस्तत्र बहुत्वाभावाद्बहुवचनायोगः यद्यसौ बहुत्वसंख्यायोगी 10 स्यात् तदैकवचनानुपपत्तिर्जनपद इत्येकत्वाभावात् । न ह्येकोऽर्थ एको भवति अनेकश्च विरोधात् । कथञ्चित्तथाऽभावे तूभयमप्युभयसंख्यायोगि स्यान्न चैतदिष्यत इति ।
एवं गोदौ ग्राम इति द्वित्वैकत्वनियमायोगः । खलतिकं वनानीत्येकवचनान्तेन बह्वभिधानमनुपपन्नम् । तथा हरीतक्यः फलानीति स्त्रीनपुंसकयोर्लिङ्गयोरयोगः । तथा पश्चालमथुरे इत्यनुत्तरपदस्य देशवृत्तेर्बहुविषयस्य बहुवद्भावप्रतिषेधानुपपत्तिः । 15 एवं चचाभिरूप इत्यादावपि चञ्चादिलिङ्गता स्यादित्यत्र यत्नः कर्तव्यः । येन सर्व समञ्जसं स्यादित्याशङ्कायामाह - सर्वलिङ्गसंख्ये वस्तुनीत्यादि - सर्वाणि त्रीण्यपि लिङ्गानि सर्वाश्च एकत्वद्वित्वबहुत्वलक्षणाः संख्या एकस्मिन्नेव वस्तुनि सन्ति । तथा हि वस्त्वर्थी मात्रेति शब्दाः सर्वत्र वस्तुतच्चे घटवस्तु घटार्थों घटमात्रेति प्रवर्तन्त इति लिङ्गानि दृश्यन्ते । गुणगुणिद्रव्यपर्यायावयवावयविरूपे वस्तुनि घट इत्य मेदविवक्षा- 20 यामेकत्वसङ्ख्या । गुणगुणिनौ द्रव्यपर्यायौ अवयवावयविनौ घटौ नैकैकमात्र इति द्वित्वसंख्या | गुणपर्यायावयवानां बहुत्वात्तद्भेदविवक्षायां गुणाश्च गुणी च गुणगुणिनो घट इति बहुत्वसङ्ख्या । न चैतदेकस्मिन् वस्तुनि स्याद्वादानुपातिनि विरुद्धं स्यात् । यतः कथञ्चिदिति वादः स्याद्वादस्तथाहि स एवायं मैत्र इत्याजन्ममरणमविच्छेदः प्रतीयते तन्न भेदमात्रं वस्तु | बालोऽयं न युवा युवाऽयं न बालः सुप्तोऽयं नोत्थित 25 उत्थितोऽयं न सुप्त इति विच्छेदश्व प्रतीयते तन्नाऽभेदमात्रं, न च तयोर्भेद एव । मैत्रो बाल मैत्री युवेत्येकत्वेन प्रतिभासनात् । गौरश्व इतिवद्भेदप्रतिभासाभावादेकान्तेन चाsभेदेऽन्यतरविलोपः । तथा च भेदाभेदप्रतिभासायोगः । न चान्यतरस्य मिथ्यात्वमितराविशेषात् तस्मादन्तरालावस्थं वस्तु तदेतत्स्याद्वानुपातीति नात्राऽनेकरूपता
१ उणा० ५०३ । २ उणा० ७९ । ३ उणा० १२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org