SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ( १३४ ) इति-अत्रोपपदविभक्तेः कारकविभक्तिरिति पञ्चमी बाधित्वा चतुर्थी । कथमितिआरादर्थत्वाभावात्कथमेभ्यो द्वितीयाद्या इत्याशङ्कार्थः। 'जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ।। २।२।१२१ ॥ वैषयिकेऽधिकरणे सप्तमी, जात्यर्थस्येति-न जातिशब्दस्य तथा सति सम्पन्ना यवा इति यव5 शब्दादेव जातिशब्दारहुवचनं स्यान्न सम्पन्नशब्दातद्विशेषणभूतादिति । जात्यर्थस्य तु बहुवद्भावे सम्पन्नादिविशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दोपाते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनमुपपन्नमिति । चेत्रो मैत्र इति-नेह जातिरभिधेया यदृच्छाशब्दत्वादनयोः जातिहि सामान्यमुच्यते । यच्छबलशाबलेयधवलधावलेयाद्यनेकव्यक्तिभेदेषु गौौरित्याद्यनुवृत्तप्रत्ययकारणमिति । यदि च बालकु10 मारादिभेदेऽनुवर्तमानमभिन्न रूपं जातिरुच्यते तथा सति नाऽजातिः । कश्चिच्छब्दा र्थोऽस्तीति जातिग्रहणमनर्थकं स्यात्तस्मात् सादृश्यसामान्यमिह जातिन स्वरूपसामान्यमिति । भवत्ययं जातिशब्द इति-गोत्रं च चरणैः सहेति लक्षणेन परमाख्यानहणात्प्राधान्येन जातावभिधेयायां भवति । इह तु तद्विशिष्टा प्रतिकृतिराख्यायत इति । 'अविशेषणे द्वौ चास्मदः' ।२।२। १२२ ॥ अनुकरणत्वादस्मच्छन्द 15 कार्या प्रवृत्तिः । अविशेषण इति-अत्र प्रतिषेधप्रधानः प्रसज्यो नञ् । यद्यत्र पर्युदासः स्याद्विशेषणादन्यस्मिन्निति तदा विशेषणेन विधेनाऽपि प्रतिषेधो विशेषणादन्यस्मिस्तु प्रयुज्ययाने विधिः । कोऽर्थः सत्यप्यस्मदर्थस्य विशेषणे ततोऽन्यस्मिन् प्रयुज्यमाने स्यादित्यर्थः । ततश्चाऽहं मैत्रो ब्रवीमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावा न्मैत्र इति विशेषणे सत्यपि स्यादित्याह-न चत्रैस्येति । विधेयत्वेनेति-अज्ञातज्ञाप20 नीयत्वेनेत्यर्थः । एकानेकस्वभावस्येति-अयमर्थ एकोऽप्यात्मा यथैकत्वेनाऽनुभूयते तथा द्रष्टाश्रोतामन्तेत्यादिनाऽनेकत्वेनापि । न ह्येकान्तेनैकत्वेनाऽनेकत्वेन वेतरविनिर्मुक्तेन प्रतिपत्तिरस्ति । तत्र यथैकत्वेन द्वित्वेन च तस्मिन् विवक्षिते एकवचनं द्विवचनं च तथा बहुत्वविवक्षायां बहुवचनं सिद्धम् । _ 'फल्गुनीप्रोष्ठपदफल्गुनीप्रोष्ठपदस्य भे'।२।२।१२३ ॥ फल्गुनीप्रोष्ठपदे 25 इति-प्रवृद्ध ओष्ठो यस्य प्रोष्ठो गौस्तस्येव पादौ यस्या ययोर्वा "सुप्रीत" इति निपात्यते । 'गुरावेकश्च' ।२।२। १२४ ॥ कारुणिक इति-करुणा प्रयोजनमस्य करुणया वा चरति । अयं भवान् इह भवान् “ भवत्वायुष्मदीर्घायुः० इमे भवन्त इह भवन्तः । पञ्चालानां देशोऽप्युपचारात्पश्चालाः । गोदौ हृदौ तत्समीपग्रामोऽपि १७-३-१२९ । २ ७-२-९१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy