________________
(१३३ ) 'विना ते तृतीया च '।२।२ । ११५ ॥ विनेति तृतीयान्तमव्ययम् । आद्यः करणविन्यासः प्राणस्योद्धं समीरणम् ।
स्थानानामभिघातश्च, न विना शब्दभावनाम् " ॥ १ ॥
'तुल्याङ्कस्तृतीयाषष्ठ्यौ' । २ । २ । ११६ ॥ न तुल्यार्था इति-तुल्या. दयो हि धर्मिवाचकाः, तुला उपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थाः। 5 गौणाधिकाराच्चेति-प्रधानादोशब्दान्न भवतीत्यर्थः। तुल्यार्थताऽपि नाऽस्तीति चकारेण परिहारान्तरं समुच्चीयत इति शेषः । नन्वनन्तरात्पूर्वसूत्रात्तृतीयाऽनुवर्तते तत. स्तुल्यार्थैवेति तद्विकल्पे कृते “ शेषे " इत्यनेन शेषलक्षणा षष्ठी सिद्धैव किमर्थं तद्विधानमित्याह-तृतीयेत्यादि । गवां तुल्यः स्वामीति-गवां स्वामी गवां तुल्य इत्यर्थः। यद्यस्मत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनाऽयोगा- 10 त्सप्तमीप्राप्तिरेव नाऽस्ति ।
'द्वितीया षष्ठ्यावेनेनानश्चः ।। २ । २ । ११७ ॥ पूर्वेणेति-पूर्वस्यामदूरवतिन्यां दिशि " अदूरे एनः "।
'हेत्वर्थस्तृतीयाद्याः' ।२।२।११८ ॥ प्रत्यासत्तेरिति-हेत्वषैस्तु व्यधिकरणाद्धेतुसम्बन्धे षष्ठ्येवास्ति । न तत्र तृतीयाद्या इति सामद्धित्वर्थेः समाना- 15 धिकरणाद्धेतोरपि तृतीयाद्या भवन्तीति । न तूत्तरसूत्रेण सर्वा विभक्तय इति सर्व विभत्यन्तर्गतत्वात्तृतीयाद्या अपि सिद्धाः किमर्थमिदमित्याह ? असर्वाद्यर्थमिति-हेतोस्तृतीयायां, “ऋणाद्धेतोः” “ गुणादस्त्रियां०" च पञ्चम्यां प्राप्तायामयं विधिरारभ्यत इति ।
'सर्वादेः सर्वाः' । २ । २ । ११९ ॥ प्रियाः सर्वे यस्येति बहुव्रीहौ हेत्वर्थयोगेऽपि न सर्वा विभक्तयः,अन्यपदार्थप्रधानत्वेन सर्वादेगौणत्वात् । गौणे मुख्ये च मुख्ये 20 कार्यसंप्रत्ययः। कर्मधारये परमसर्व हेतुं वसतीत्यादि तु भवति । 'ग्रहणवता नाम्ने 'ति नोपतिष्ठतेऽत्र । __ 'असत्वारादर्थाहाङसिङयम्' । २ । २ । १२० ॥ असत्त्व आरादर्थः, न विद्यते सत्वं यस्य स चाऽसौ आरादर्थश्च वा । गौणादिति निवृत्तम्-विभक्तिसम्बन्धत्वात्तनिवृत्तावित्यर्थः । अत्र हि यदीनि वचनान्युपात्तानि, न तृतीयाद्या विभ- 25 क्तयः । दूरेण ग्रामस्य ग्रामाद्वा-इदं तदिति सर्वनामप्रत्यवमर्शयोग्यार्थाभिधायकत्वेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्त्वरूपार्थाभिधायकत्वं न विरुध्यते । तथाऽत्र ग्रामश. ब्दाद् “ आरोदर्यैः ” इति वा पञ्चम्यां पक्षे " शेषे” इति षष्ठी । अन्तिकाय पथे
१२-२-८१ । २७-२-१२२ । ३ २-२-७६ । ४ २-२-७७ । ५२-२-७८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org