________________
( १३२ ) सत्यम् । भुजिक्रियाया एकस्या अपि काल भेदाभेदस्य सिद्धत्वादाधारो हि तस्या भिद्यते । अधिकरण एव सप्तमीति-क्रियामध्यव्यवस्थितस्याऽध्वनोऽधिकरणत्वात् सप्तमी सिद्धा क्रोशैकदेशस्याऽधिकरणत्वात् क्रोशेऽप्यधिकरणत्वस्य वक्तुं शक्यत्वात् , व्यहे पूर्ण इत्यत्र तु पूर्णव्यहस्य यदुपश्लिष्टमहस्तत्र भोक्तेत्यर्थावसायादौपश्ले5 षिका सप्तमी सिद्धा । पञ्चमी त्वध्वनोऽपादानत्वात् , क्रोशानिर्गच्छद्भिः शरैर्लक्ष्य विध्यतीत्यर्थावगमात् । कालात्तु “ गम्ययपः०” इति व्यहमतिक्रम्य भोक्तेत्यर्थप्रतीतेः किमर्थोऽयं योग इत्याक्षेपार्थः । यथा च शरनिर्गमनस्य धनुरपादानं तथा क्रोशोऽपि तस्मादपि हि ते निर्गच्छन्ति । यद्वा क्रोशस्थं धनुरपि क्रोशेनाभि
धीयते उपचारात् मञ्चाः क्रोशन्तीतिवत् । 10 अस्यैवेति-अपादानस्याऽऽधारस्य वेत्यर्थः । फलभूतेतिक्रियाकारकसम्बन्धो हि
कटं करोतीत्यादावप्यस्ति, तद्व्यवच्छित्यै शेषसम्बन्धलक्षणा फलभूता कार्यभूतोत्तराऽवस्था इत्युक्तम् । षष्ठी मा भूदिति वचनमिति-अयमों यदा भोजनश्रवणादौ कालाध्वनोः क्रियाकारकजन्यं शेषसम्बन्धित्वमेव केवलं विवक्ष्यते न त्वपादानाधि
करणत्वे तदा ताभ्यां षष्ट्येव स्यादिति सूत्रारम्भः । किश्च यदा व्यहक्रोशशब्दो व्य15 हक्रोशावेव न तदेकदेशविषयौ तदा नाऽपायो नाऽप्याधारतेति षष्ठी प्राप्नोति, किञ्च
क्रोश वाहयित्वा विध्यति, द्वयहं वाहयित्वा भोक्तेति वा प्रतीतेर्द्वितीया प्राप्नोति तद्वाधनार्थोऽयं योग आरभ्यते । वृत्तौ तु षष्ठी मा भूदिति षष्ठीग्रहणमुपलक्षणार्थम् , तेन द्वितीयाऽपि मा भूदित्यर्थः सिद्धो भवति ।
'अधिकेन भूयसस्ते' । २ । २ । १११ ॥ भूयसित्युपादानादधिकशब्दे20 नाऽल्पीयानेवोच्यत इत्याह-सामादिति-अत्राधिकाधिकिसम्बन्धस्य विद्यमान
त्वातखारीशद्वात् “ शेषे " इत्यनेन षष्ठी प्राप्नोति तथाऽधिकशद्धस्य कर्तृसाधनाध्यारूढार्थत्वात् कर्मणीति द्वितीया च । अतस्तयोर्वाधिके सप्तमीपञ्चम्यावनेन विधीयेते।
'तृतीयाल्पीयसः' । २।२। ११२ ॥ सामर्थ्यादिति अल्पीयस इत्युपादानाकर्मसाधनो भूयोऽर्थोऽधिकशब्दः प्रतिपत्तव्य इति । कर्तरि तृतीया सिद्धव 25 षष्ठीबाधनार्थं तु वचनम् ।
'ऋते द्वितीया च'।२।२।११४ ॥ न ह्यङ्गं विक्रियत इति-विषयादिभिः कर्तभिरित्यर्थः । विक्रियत इति कर्मण्ययं प्रयोगः । कर्मकर्तरि तु “ भूषार्थ. " इति किरादित्वात् क्यप्रतिषेधः स्यात् । १२-२-७४ । २ २-२-८१ । ३ ३-४-९३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org