________________
( १३ ) तत्रोभयत्रापि प्रव्रजन् रुदताऽपि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्रावाजीदित्यनादरः प्रकरणादेः प्रतीयत इति समानेऽर्थे षष्ठी सप्तमी बाधितेति पक्षे तदर्थ वा वचनम् । ___ 'सप्तमी चाविभागे निधारणे'।२।२।१०९॥ क्षतात्रायते “ स्थापा०" इति कः पृषोदरादित्वादलोपे क्षत्रं तस्याऽपत्यं “ क्षेत्रादियः ” क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्वशालित्वं जात्या कृष्णत्वगुणेन, धावनक्रिययाऽऽदिशब्दाद् युधिष्ठिर 5 प्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमाणस्याऽवयवस्य समुदायाभ्यन्तरत्वाततश्च समुदायस्याऽधिकरणविवक्षायां वृक्षे शाखेतिवत्सप्तम्याः सिद्धत्वात् , सम्बन्धविवक्षायां त्ववयवस्य वृक्षस्य शाखेतिवत् षष्ट्या अपि सिद्धत्वात्किमनेनेति ? नैवम् विभागे प्रतिषेधार्थत्वादस्य, ननु सर्वत्रैव निर्धारणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वादविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यादवधारणमाश्रीयते । अवि- 10 भागो यत्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमीषष्ट्याविति । यथा क्षत्रिया पुरुषाणां पुरुषेष्वित्यत्र निर्धार्यमाणस्य क्षत्रियस्य पुरुषशब्दात्पुरुषत्वेनाविभागप्रतीतिः । तेन माथुराः पाटलिपुत्रकेम्य आढ्यतरा इत्यत्र न भवति । न ह्यत्र केनचिप्रकारेण माथुराणां पाटलिपुत्रकेष्वविभागः शब्दतः प्रतीयते । नहि पाटलिपुत्रका माथुरा नाऽप्याढ्यतरा इति वाक्याद्भेद एव प्रतीयत इत्याह-शब्दाद्गम्यमान इति- 15 गवां कृष्णेत्यादौ विभज्यमाना गौर्गोत्वेन समुदायादविभक्ता कार्येन तु विभक्ता तस्माद्विभज्यमानस्यैकदेशस्य विभागाश्रयस्य च समुदायस्य यत्र विभागाविभागौ स एवाऽनयोर्विषयः । यत्र तु तयोविभाग एव न कथञ्चिदैक्यं तत्र पञ्चम्येव भवति अत एवाऽऽह--पञ्चमीबाधनार्थमिति । अयमर्थनिर्धारणस्य विभागरूपत्वाद्यस्य हि यतो विभागस्तस्य तदपेक्षयाऽवधिरूपत्वादपादानत्वात् " पञ्चम्यपादाने " इति पञ्चम्यां 20 प्राप्तायां यत्राऽविभागोऽपि तत्र तदपवादो योग इत्यर्थः।
'क्रियामध्येऽध्वकाले पञ्चमी च' ।२।२।११० ॥ इहस्थोऽयमितिनन्विष्वास इति धनुरुच्यते । यथाऽङ्गराजो महेष्वास इति । महानिष्वासो यस्येति व्युत्पत्तेः। धनुश्च व्यधने करणं कर्ता तु मैत्रादिस्तत्कथमुक्तमिष्वासो विध्यतीति ? उच्यतेइष्वास इति क्रियाशब्दोऽयमिति । यः कश्चिदिपूनस्यति क्षिपति स मैत्रादिरप्युच्यते, 25 यद्वा रूढिशब्दत्वेऽपि करणस्य स्वातन्त्र्यविवक्षायामिष्वासो विध्यतीत्युपपद्यत एव । यथा स्थाली करणस्य कर्तृत्वविवक्षायां स्थाली पचतीत्युच्यते । अद्य भुक्त्वेतिनन्विहस्थोऽयमिष्वास इत्यादि क्रियाभेदात् युक्तमिदमुदाहरणम् । इदं त्वयुक्तमिदमुदाहरणम् । इदं त्वयुक्तमऽद्यभुक्ता मुनिहारोक्तेति भुजिक्रियाया एकत्वात् ?
१५-१-१४२ । २ ६-१-९३ । ३ २-२-६९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org