________________
( १३० ) इत्यादिवत् । यदा तु सप्तम्यर्थ एवाधिशब्दस्तदाऽत्राऽप्यव्ययीभाव एवाऽध्यवन्ति प्रद्योत इति । नन्वत्र क्रमेण परस्परमाधाराधेयभावविवक्षायां पर्यायेण सप्तम्यधिकरण एव सप्तमी भविष्यतीति किमनेनेति ? सत्यम् । सम्बन्धविवक्षया षष्यपि स्यादित्याह-षष्ठ्यपवादो योग इति ।।
'उपेनाधिकिनि' ।२।२ । १०५ ॥ अत्र यदधिकं तदधिकिन्यारूढमित्याधारविवक्षायां सप्तमी सिद्धैव परं पूर्ववद्विमक्त्यन्तरवाधनार्थम् । अधिको निष्कस्येति-साधु त्यो राज्ञ इतिवनिष्कशब्दस्याऽधिकशब्देन सह सम्बन्धाभावाद् “ अधिकेन भूयसस्ते ” इत्यनेन निष्कशब्दान पश्चमी ।
'यद्भावो भावलक्षणम् ' । २।२।१०६॥ कलायो मात्रेष्विति-कलायो 10 मालवकप्रसिद्धोऽधमधान्यविशेषो मानमेषां स्यात् , “मात्रट्" इत्यनेन मात्रट् । यत्रेति
अयमों यत्र ऋद्धानां दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासंख्यं कारकत्वं कोऽर्थस्ता प्रति कर्तृत्वं, तद्विपर्ययोऽकारकत्वं च तत्रापि भावो भावस्य लक्षणमित्यनेनैव सप्तमी सिद्धेति यदन्यैः क्रियाहा॑णां कारकत्वं तद्विपर्ययो वा यत्र क्रियानर्हाणा
मकारकत्वं, कारकत्वं वेति सप्तमीविधायकं सूत्रद्वयं कृतं तन्नाऽऽरम्भणीयम् । 15 यस्य भावो भावस्य लक्षणं ततो भाववतः सप्तभीष्यते यद्रहणमन्तरेण चैतन
लभ्यते इत्याह-यद्रहणं प्रकृत्यर्थमिति-यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमिति तु द्रव्यम् । तृतीयापवाद इति-इत्थम्भूतलक्षणेऽर्थे ।
'गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा'।२।२ । १०७॥ कुताश्चिदवधेर्गवीधुमत इत्यादिलक्षणाद्विवक्षितस्येयत्तापरिच्छेदस्य योऽध्वनोऽवसानं साङ्काश्याद्यन्तः। यद्भाव इति यस्याऽध्वनश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः साङ्काश्यभवनरूपो लक्ष्यते तस्येत्यर्थः । एकोऽर्थो द्रव्यमने कभेदोऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्यम् । तद्विभक्तिरिति-अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामीः श्रीस्तां दधाति " काहृषि० " इति किदुः। सोऽत्राऽस्ति मतुः।
अव्युत्पन्नो वा गवीधुमच्छब्दः । गव्यतिरत्राऽस्ति विषयतयाऽवयवितया वा, ." अंभ्रादिभ्यः " अः, गव्यूतं क्रोशमेकम् । नन्वन्तेनेति-चतुर्षु योजनेषु यत्साङ्काश्यं • तच्चत्वारि योजनानि ।
'षष्ठी वाऽनादरे' । २।२।१०८ ॥ सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान बाध्यबाधकमावोऽस्तीति किं ? पक्षे सप्तम्यर्थेन न वा शब्देनेति ? उच्यते-यथाऽनादरादन्यत्र साम्यतः सप्तम्यस्ति । एवं " शेषे” इत्यनेन षष्ठ्यपि, १२-२-१११ । २ ७-१-१४५ । ३ उणा० ७२९ । ४ ७-२-४६ । ५ २-२-८१ ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org