________________
( १२७ ) भविष्यति । उपस्थानीयः पुत्रः पितुः-उपतिष्ठते “ प्रवचनीयादयः " इति कर्तर्यनीयः, अत्र पितुः शब्दात् कृत्यस्य वेति कर्तरि षष्ठी, द्वितीये तु उपस्थीयते मैच्यादेवार्चेति आत्मने इति कर्मणि तव्यानीयौ “ कर्मणि कृतः " इति पुत्रात् षष्ठी । __ 'तृन्नुदन्ताव्ययकस्वानातृश्शतृङिणकच्खलर्थस्य '।२।२।९०॥ " कर्मणि कृतः”, “ कर्तरि " इति च प्राप्त्याः षष्ट्या अपवादः । पायं पायं-" रणम् 5 चाऽभीक्ष्णे'', "भृश०” इति द्वित्वं च । भोक्तुं व्रजतीति-अत्र हेतुहेतुमद्भावे तृतीया, " तुमोऽर्थे ० " इत्यनेन चतुर्थी वा । सम्बन्धविवक्षायां षष्ठी वा । आहरिष्यतीति " कियायां० " इति णकचि आहारकः ।
'क्तयोरसदाधारे' । २ । २। ९१ ॥ ननु सन्धात्वर्थस्तत्र धातुरेव वर्तते कृत्यप्रत्ययस्तु " कर्तरि ” इत्यादिना कारके भावे च विधीयते । तत्र सति प्रत्यय- 10 विधिरेव नाऽस्ति कथं प्रतिषेधः ? सतोऽन्यस्मिन्नर्थ इति, नैष दोषः, सदर्थसहचारी प्रत्ययोऽपि सन्नित्युच्यते । यद्वा धात्वर्थोऽपि सन्निति प्रत्ययत एव विज्ञायते । नहि धातुतः क्रियालक्षणो धात्वर्थो भूतो भवन भविष्यन्निति वा ज्ञातुं शक्यः । धातुर्हि क्रियामात्रमाह न त्वमुं विशेषम् । स तु प्रत्ययादेव प्रतीयत इति कादिकारकवृत्तिरपि प्रत्ययः सतीति विज्ञायते । कथमिति-शीलितो मैत्रेणेत्यादावपि " हानेच्छा० " इति 15 तो वर्तमानताप्रतीतिरप्यस्ति तत्कथं निषेध इत्याशङ्कार्थः । भृतेऽयं क्त इति-यद्ययं भूते क्तः कथं वर्तमानताप्रतीतिः ? उच्यते-वर्तमानमध्ये भूतो भविष्यंश्च कालोऽस्ति, अतो भूते क्तः । यथा कटं करोतीत्यत्र कटस्य येऽवयवा निष्पन्नास्तदपेक्षयाऽतीतत्वं ये च निष्पद्यमानास्तदपेक्षया वर्तमानत्वं ये च निष्पत्स्यन्ते तदपेक्षया भविष्यत्वम् । अहेः सृप्तमिति-सदाधारादन्यत्र चातुःशब्यं भवति, यदा कर्तरि क्तस्तदा इममहि: 20 सृप्तो देशं यदा कर्मणि तदाऽयमहिना सुप्तो देशः । भावे तु " वा लीबे” इति वा षष्ठ्यामहेः सृप्तमहिना सृप्तमिति । अकमेवाराणसीमिति-वरणा चाऽसिश्च वरणासी नद्यौ ते विद्यतेऽस्यां " अहरादिभ्योऽञ्" । पृषोदरादित्वाद् इस्वदीर्घव्यत्ययेऽअन्तत्वाद् ड्याम् । यद्वा वराण इति वीरणाख्या वराणास्तुणविशेषाः सन्त्यस्यां "तृणादेः सल्," " लिन्मन्यनि० " इति स्त्रीत्वे वराणसाया अदूरभवा “ निवासादूर० '' इत्यण् । 25
'एष्यदृणेनः ।।२।२।९४ ॥ शतं दायी-शतं धारयन् ददाति । " णि चाऽऽवश्यक० " इति णिन् करोपीति हरसीति पूर्ववद् णिन् ।
१२-२-८३ । २२-२-८६ । ३५-४-४८ । ४७-४-७३ । ५२-२-६१।६५-३-१३ । ७५-२-९२। ८२-२-९२ । ९६-२-८७ । १०६-२-८१ । ११६-२-६९ । १२५-४-३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org