________________
( १२६ )
अन्यत्रेति - यतः "कर्मणि " कृतः इत्यनेन द्वयोरपि कर्मणोः षष्ठी प्राप्ता पक्षेऽनेन निषिध्यते । अजाया नेतास्रुघ्नमिति, एकत्रेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेषेण ग्रहणमित्युभयत्रैवोदाहरति । ननु कर्मणीत्यधिकृतत्वादेकशब्दस्य च सद्वितीयव्यपेक्षत्वादेकत्रेत्युक्तेऽपि द्वयोः कर्मणोरेकतरस्मिन्निति गम्यत एव किं 5 द्वयोरित्यनेन ? नैवम् एवं सति ' प्रधानाप्रधानसन्निधौ प्रधाने कार्यसंप्रत्यय ' इति न्यायात् प्रधान एव कर्मणि स्यात् । यद्वा गौणादित्यधिकारात् कर्मापेक्षयाऽपि गौणकर्मण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणोः पर्यायेण षष्ठीविकल्पार्थं द्वयोरित्युपादानमित्यदोषः ।
(
कर्तरि ' । २ । २ । ८६ ।। आसितुं पर्यायः, णिवेत्ति ० " इत्यनः ।
66
10 सिका । आसनं, आसना
6
'द्विहेतोररूयणकस्य वा ' । २ । २ । ८७ ॥ नित्यं प्राप्त इति-" कैर्तरि ” इत्यनेन । खल्विदमिति - खल संचये च खलतीति “भ्रमृतृ० " इति बहुवचनादुः । संगृह्यन्ते स्तोकशब्दैर्बहवोऽर्था अस्यामिति, "ऋहसृ०" इत्यणिः । अगोपाल केनेति - पालयतीति णकः, गवां पालकः “ अकेन क्रीडाजीवे " समासः । अन्तर्धी येनाऽदर्शनमिच्छतीति15 पञ्चमीविधायकं पाणिनिसूत्रमिदम् । अस्य चाऽयमर्थः - अन्तर्धौ अन्तर्धिविषये स वाऽऽत्मनः कर्मतापन्नस्य येनोपाध्यायादिना कर्तृभूतेन यददर्शनं तदिच्छतीत्यर्थः । भिन्नकृतोरिति- ननु पाक इत्यत्राऽपि " भावाकर्घञ् " प्रादुर्भाव इत्यत्राऽपि स एव तत्कथं भिन्नकृतोरित्युच्यते १ सत्यम्, धातुभेदात्तस्याऽपि भेद इत्यदोषः । भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति-भेदयितुं पर्याय इत्येव कार्य, भावे तु " णि वेत्ति० " 20 इत्यनेनाऽनप्रत्यय एव स्यात् ।
" पर्योया ० " इति णकः,
6 ' कृत्यस्य वा ' । २ । २ । ८८ ।। गेयो माणवको गाथानामिति - अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्यं, माणवकात्तु अगौणत्वाद् प्राप्तिरेव नाऽस्ति ।
नोभयोर्हेतोः ' । २ । २ । ८९ ।। ननु द्विकर्मकेषु धातुषु तावदयं प्रतिषेधस्तत्रैवोभयप्राप्तिसम्भवात् । तत्र प्रधानकर्मणः कृत्येनैवाभिहितत्वात् षष्ट्यविषयत्वात् 25 ' प्रधानाप्रधानसन्निधौ प्रधान एव सम्प्रत्यय ' इति न्यायात् तव्यादिवद् अप्रधानादप्यप्रसङ्गात् कर्तर्येव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते नैवम् द्वितीया बाधिका हि कृत्प्रयोगे षष्ठी विधीयते । द्वितीया चाऽप्रधानाद्यथा भवति तथाऽत्र षष्ट्यपि
आ
Jain Education International
१२-२-८३ । २ ५-३-१२० । ३५-३-१११ । ४ २-२ - ८६ । ५ उणा० ७१६ । ६ उणा० ६३४ । ७ ३-१-८१ ।
For Private & Personal Use Only
www.jainelibrary.org