________________
(१२५) प्रकृतिस्ततः “ परीवरात्स्तात् ” “ सर्वादयोऽस्यादौ” इति पुम्भावः । दक्षिणपश्चादितिदक्षिणा च साऽपरा च दक्षिणाऽपरा तस्यां वसति । रिप्रभृतयः प्रत्ययाः स्वार्थिका दिकशब्देभ्यो विधीयन्तेऽतस्तदन्ता अपि दिक्शब्दा एवेति “ शेषे " इत्यस्याऽपवादः । “ भृत्यन्यार्थ० " इति पञ्चमी विधीयते । अत एव दक्षिणा ग्रामाद्रमणीयं, दक्षिणाहि ग्रामाद्रमणीयमिति “ याही.” इति प्रत्ययद्वययोगे षष्ठी न लभ्यते । इत्याह पञ्चम्यपवाद इति ।
'कर्मणि कृतः'।२।२। ८४ ॥ द्वितीयापवाद इति, “ कर्मणि" इत्यनेन प्राप्तायाः। पुत्रपौत्राणामिति-पुत्रस्याऽपत्यमनन्तरं "पुनर्भूपुत्र." इति अञ् । पुत्रस्य पौत्राः पुत्रसहिताः पौत्रा वेति विधेयम् , द्वन्द्वे तु “गवाश्वादिः" इति समाहृतिः स्यात् । पिबतीति पिवः, “घ्राध्मा० " इति शः । कृत इति किं ? अयमर्थः, ननु कर्म कारकं 10 तच्च क्रियामन्तरेण न सम्भवति । यतः क्रियायाः कारकं कारकं भवति । क्रिया च प्रत्ययसहितं धातुमाक्षिपति, धातोश्च द्वये एव प्रत्यया विधीयन्ते त्यादयः कृतश्च । तत्र "तं पति.” इत्यादि ज्ञापकात् त्यादिप्रयोगे द्वितीयाविधानात्कृत् प्रयोग एव षष्ठी भवति किं कुद्हणेनेति ? नैवम् , कुद्रहणमन्तरेण तद्धितप्रयोगेऽपि यत्कर्म तत्रापि षष्ठी स्यात्तनिषेधार्थ कृद्रहणम् । कृतपूर्वीकटमिति-वर्त्तते कः ? कृर्ता कृतपूर्वी पूर्व 15 कृतवानित्यर्थः । कं ? कृतपूर्वी कटम् । तत्र यथा चित्रगुरित्यादौ बहुव्रीहिणा स्वामिसामान्येऽभिहिते विशेषाभिधानाय चैत्रादिः प्रयुज्यते तथाऽत्राऽपि सामान्यकर्मण्यभिहिते विशिष्टकर्माभिधानाय कटादेः क्तेनाऽनभिहितस्य द्वितीयान्तस्य प्रयोगः । कथमिति-त्यागोऽस्याऽस्तीति इनि तद्धिते-प्रत्ययेऽर्थस्येत्यादि कर्मणि षष्ठी न प्राप्नोत्याशङ्कार्थः। “ युजभुज ० " इति घिनण् । “ "जीण् दृक्षि० ” इति " प्रोत्सूजोरिन् ” 20 इति यथाक्रमं त्यागीत्यादिषु प्रत्ययाः ।
'वैकत्रद्वयोः ।।२।२। ८५ ॥ द्वयोः कर्मणोरिति-ननु कृत इत्यस्यैव षष्ठयन्तस्य द्वयोरिति कस्मान्न विशेषणं, तत्रापि हि द्वयोः कृदन्तयोरेकं यत्कर्म तत्र षष्ठी वा भवतीत्ययं सूत्रार्थो घटते, तथा च अपां स्रष्टा, भेत्ता च मैत्र इत्यादावेव विकल्पः स्यादिति, नैवम् ; एवं सति कर्मणि कृतो द्वयोश्च वेत्येकमेकयोगं कुर्यात् । एवं च सति । एकस्य कृतः कर्मणि नित्यं षष्ठी भवति द्वयोस्तु कृदन्तयोर्वा भवतीति सूत्रार्थे समस्तार्थस्य सिद्धत्वात् । तस्मात् पृथग्योगात् कर्मण एव विशेषणं न कृत इत्यस्य ।
45
१७-२-११६ । २३-२-६१ । ३२-२-७५ । ४७-२-१२० । ५२-२-८३ । ६२-२-४०। ७६-१-३९ । ८३-१-१४४ । ९४-३-९८। १०६-४-१६१ । ११५-२-५.। १२ ५-२-७२ । १३ ५-२-७१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org