________________
( १२४) 'स्तोकाल्पकृच्छ्रकतिपयादसत्वे करणे' ।२।२ । ७९ ॥ यतः स्तोकत्वादेनिमित्तत्वाद्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्तिः, स गुणोऽसत्वं शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः । तेनैवेति-असत्वरूपेणाऽयमर्थस्तिरोहितधनादि विशेष्यं स्तोकादिरूपेणैव
सामान्यात्मनाऽभिधीयमानं धनादिरूपव्यावृत्तं स्तोकादिरूपापन्नं द्रव्यं गुणः क्रिया वा 5 यदा प्रतीयते तदा द्रव्याद्यसत्त्वमिति । स्तोकान्मुक्त इति-" असत्त्वे ङसेः" इति पञ्चम्यलुप् । असत्त्ववाचित्वादिति-द्रव्यस्यैव विशेषसंख्यायोगित्वादिति शेषः। द्वित्वबहुत्वासम्भवे इति-एकत्वनिवन्धनकवचनस्याऽप्यसम्भवे औत्सर्गिकमेकवचनम् , स्तोकादिशब्दानां स्तोकार्थाभिधायकत्वेनाऽसत्त्ववाचित्वात् क्रियां प्रति साधकतमत्वाभावात्
करणत्वाभावे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्यप्रसिद्ध्या करणत्वमाह10 यद्वा स्तोकेन राहुणा मुक्तः शशीत्यादौ मोचनामोचनलक्षणं क्रियाद्वयं विद्यते । यतः
स्तोकेन मुक्त इति-कोऽर्थः ?, किश्चिन्मुक्तः किञ्चिदमुक्त इत्यर्थः । ततश्च कस्यायाः क्रियाया अपेक्षयात्र करणसंज्ञेत्याह स्तोकेत्यादि, स्तोकस्याभिनिवृत्तिं निष्पत्तिं स्तोकस्य चाऽनिर्वृत्तिमनिष्पत्तिमाश्रित्य स्तोकादीनां करणत्वप्रसिद्धिमाचक्षते पूर्वाचार्याः ।
'अज्ञाने ज्ञः पष्ठी'।२।२। ८० ॥ वेति निवृत्तम् । भिन्नविभक्तिवि15 धानादिति शेषः । सर्पिषो जानीतेऽत्र " जैः” इत्यात्मनेपदम् । अत्र करणस्य सम्ब
न्धिविवक्षया सर्पिष इदं ज्ञानं नाऽन्यस्येति षष्ठी सिध्यतीति किमर्थोऽयं योग इत्याहतृतीयापवादो योग इति-अयमर्थः, सिध्यति षष्ठी किन्तु करणविवक्षायां तृतीया मा भूदित्ययं योगः। सर्पिषामिति-आजगव्यमाहिषाणां घृतानामित्यर्थः ।
'शेषे'। २ । २ । ८१ ॥ क्रियाकारकपूर्वक इति-क्रिया च कारकं च क्रिया20 कारके ते पूर्वे यस्य स तथा यथा राजपुरुषः। राजा कर्ता पुरुषं विभति अतो राज
पुरुष इत्युच्यते । कर्माद्यविवक्षालक्षण इति कर्मादिभ्योऽन्य इति तु विशेषेभ्योऽन्यत्वं विवक्षितं न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमाणक्रियो यथा राजपुरुष इत्यादि, श्रूयमाणक्रियो यथा न माषाणामश्नीयादित्यादि । अस्येदं शब्दस्य यो
भावः प्रवृत्तिनिमित्तं स भावो रूपं यस्य स सम्बन्धविशेष इति-असंबन्धाद् भिद्यमानः 25 सम्बन्धः सम्बन्धविशेष उच्यते, यावता सम्बन्ध इत्युक्तेऽपि सिध्येत् , विशेषज्ञापना
योक्तम् । प्रथमापवाद इति-एकद्विवहाविति संख्यामात्रमुपादाय नाम्नः प्रधानादप्रधानाच सामान्येन प्रथमा विधीयते तत्राऽयं षष्ठीविधिौणादिति, विशेषमुपादाय प्रवर्तमानस्तदपवादो भवति ।
'रिरिष्टात्स्तादस्तादसतसाता'।२।२।८२॥ परस्तादिति-परः परा वा १३-२-१० । २ ३-३-१२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org|