________________
(१२३ ) गुरुशुश्रूषादिकं शिष्यवृत्तमाख्यायते न तूपयोगमात्रं, यत उपयोगमानं नटादपि भवत्यतस्तस्मादपि स्यात्पञ्चमी । आगमयतीति-आगमं गृह्णाति णिज बहुलं, आगच्छन्तं वा प्रयुङ्क्ते । प्रत्येकमिति-प्रतीतमेकं निमित्तं तेन बुद्धः।
'गम्यपः कर्माधारे ' ।२।२ । ७४ ॥ एवमिहाऽपीति-अयमर्थः-प्रासादानिःसृत्याऽपक्रम्य चक्षु रश्मिद्वारा प्रेक्षते, प्रासादानिःसरता चक्षुषा कृत्वा देवदत्तः 5 प्रेक्षते वा; तत्ततोऽपक्रामति । अयमर्थः-ततः प्रासादेस्तच्चक्षुरादि अपैति निस्सरतीति तस्याऽपायेऽवधिभूतत्वादपादाने पञ्चमी सिद्धैव । अनपक्रामद्धीति-एतन्नैयायिकमताभिप्रायेणोक्तं, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते । दृशेर्वर्तनादितिदृशेरिति कोऽर्थः १ दृशिसमानार्थस्य ईक्षरित्यर्थः ।
'प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः । २ । २ । ७५ ॥ दिशि दृष्टाः 10 शब्दा " मयूरव्यसक०" इति दृष्टलोपः । दिशि ये वाचकत्वेन दृष्टास्ते इह दिगशब्दा इति विज्ञायन्ते, न तु दिशि वर्तमाना एव तेन दिशो वाचकत्वेन दृष्टस्य शब्दस्य देशे काले आदिशब्दाद् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी । ग्रीष्मादारभ्येतिआरभ्येति तान्तमक्तान्तमव्ययं वा । प्रागेव “ अदिस्त्रियाम् ” इति स्वार्थे ईनः नपुंसकत्वं तु सामान्यभावेन, तथा वर्तते किं तत्कत प्राचीनं किं तत् आम्रा इति । 15 अञ्चत्यन्तयोगे यथा प्राग्ग्रामादित्यादौ पश्चमी तथाऽत्राऽपीति कश्चित् मुह्येत् तं प्रत्याह-न्यग्मैत्रस्येति न्यक् उपसर्जन यथा भवत्येवंस्थित इत्यर्थः । अन्यार्थाद् भिद्यते इति-अयमर्थोऽन्य इति प्रकृतिविलक्षणोर्थ उच्यते, इतर इति च दृश्यमानप्रतियोगीत्यर्थः। छात्राणामिति-छात्राणामवर्यानां योऽवयवश्छात्रस्तस्मात्पूर्व छात्रमामन्त्रयस्वेति पूर्वत्वं छात्रान्तरापेक्षं न छात्राणामिति समुदायापेक्षम् । कायस्य पूर्वमिति-का- 20 यस्याऽवयविनो यद्भागान्तरं किं विशिष्टं पूर्व कस्याः सकाशानाभः । कायस्य सम्बन्धि यदवयवान्तरं पूर्व तस्य नाभिरूपेणाऽवयवान्तरेण सह सम्बन्धः ।
'गुणादस्त्रियां नवा' ।२।२ । ७७ ॥ जडस्य भावो दृढादित्वाद् टयण, परिख्यातस्य भावः “ पैतिराजान्त० " इति टयण् । ___ 'आरादथैः' । २।२ । ७८ ॥ दुरान्तिकादिनैव योग इति-कथं वर्तते, 25 किं तत् , कर्तृ दूरं, कस्य ग्रामस्य ? किम्भूतं दूरं हितं, दूरशब्देनैव ग्रामस्य सम्बन्धो विवक्षितो न तु हितशब्देन, असत्ववचनैरितिधर्ममात्रवृत्तिभिः, कारकशेषत्वात् षष्ठीप्राप्तौ वचनम् ।
१३-१-११६ । २७-१-१०७ । ३७-१-६० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org