________________
( १२२ ) " तद्भद्रा० " इत्यस्य दर्शयति, तथाहि-स्वस्ति जाल्मायेत्यत्र जाल्मत्वेनाऽऽशीरभावात्तत्वाख्यानमिदमिति स्वस्तिचतुर्थ्या अवकाशः । क्षेमं भूयात् सङ्घायेत्यत्र तु क्षेमचतुर्त्या अवकाशः। स्वस्ति प्रजाभ्य इत्यत्रोभयप्राप्तौ परत्वादाशिष्यपि नित्यं स्वस्तिचतुर्थी भवतीत्यर्थः । नमसेति-यद्वाऽस्तु नमसा योगः तथापि नमः शब्दस्याऽर्थवतो 5 ग्रहणादनर्थकयोगे न भवति । अत्र हि नमस्यधातुरर्थवान्न तु तदेकदेशो नमः शब्द
इति । अथवा पदान्तरसम्बन्धानपेक्षणादन्तरङ्गया द्वितीयया कारकविभक्त्या उपपदविभक्तिसतदपेक्षणाद्भहिरङ्गा चतुर्थी बाध्यते । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' ति न्यायात् । ननु कारकविभक्तिरपि क्रियापदापेक्षणीति कथमन्तरङ्गा ? नैष दोषः
कारकस्य क्रियामात्रसम्बन्धाव्यभिचारात् । यद्येवमिति-कारकविभक्त्या द्वितीयया 10 बाध्यमाना कथमत्र चतुर्थीति प्रश्नार्थः।
'आङाऽवधौ'।२।२। ७० ॥ प्रवृत्तस्य यत्र निरोधः स मर्यादा । मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिः । पाटलिपुत्रमवधीकृत्येति-एतावानर्थ आङा द्योत्यते ।
'पर्यपाभ्यां वये' । २ । २ । ७१ ॥ वर्ण्यवर्जकसम्बन्धः पर्यपाभ्यां 15 द्योत्यत इति, " वाक्यस्य परिर्वर्जने " इत्यनेन परिपरीत्यत्र द्वित्वम् । अपशब्दो
मैत्रस्य-अपगतः शब्दात् । तत्पुरुषस्य पूर्वपदप्रधानत्वात् पूर्वपदेन अप इत्यनेन सह मैत्रशब्दस्य योगोऽस्तीति, न वयं इति व्यावृतेयङ्गविकलता । अत्र मैत्र. शब्दात् मा भूत् ।
'यतः प्रतिनिधिप्रतिदाने प्रतिना '।२।२ । ७२ ॥ प्रतिनिधीयत 20 इति-प्रतीतः सन् मुख्यस्थाने निधीयत-आरोप्यते-सदृशः क्रियते इति तात्पर्यार्थः ।
तुल्यजातीयेनाऽतुल्यजातीयेन वा विशोधनमिति शेषः । प्रद्युम्नो वासुदेवात् प्रति । युभिर्मीयते " युसुनिभ्यो माङो डित् " प्रद्युम्नः सदृशः क्रियते, केन सह ? वासुदेवेनेति " तुल्याथै ०" इति तृतीयाषष्ठ्योः प्राप्तिः । श्रेणी कायति प्रसन्नचक्षुषेति श्रेणिक
स्तस्मात् " प्रतिना पञ्चम्याः " इति तस् । तिलेभ्यः प्रतीति-प्रयच्छति प्रददाति, कान् 25 माषान् ? कथम्भूतान् प्रति ? प्रतिदानभूतान् , केषां तिलानामिति प्रतिशब्दाद् द्विती
यैकवचनम् । प्रति सिञ्चति-सिचिरिह दाने, नाऽत्र सिचः प्रतिना योगोऽपि तु सर्पिष इति “ स्थासेनि० " इत्यनेनोपसर्गत्वाभावान्न पत्वम् । _ 'आख्यातर्युपयोगे'। २। २। ७३ ॥ नियमपूर्वकेति-नियमो विद्याग्रहणार्थ
१७-४-८८ । २ उणा० २६६ । ३ २-२-११६ । ४ ७-२-८७ । ५ २-३-४० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org