________________
( १९१ ) षष्ठीप्राप्तौ “ वैकत्र द्वयोः " इत्यस्य तु पक्षे सिद्धैवेति । न त्वं बुसो मन्यसे । अत्र विशेषणविशेष्यभावेनोभयमपि कर्म उक्तम् । यथा कटः क्रियन्ते वीरणानि ।
‘हितसुखाभ्याम् ।।२।२। ६४ ॥ इति आतुरायेति, 'तुर' चुरणे, पठितो जुहोत्यादौ द्रष्टव्यः।
'तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि' । २ । २ । ६६ ।। भद्रक्षेमार्थयोरन्यत्रैकार्थ- 5 त्वेऽपि क्षेममापदोऽभावो भद्रं सम्पदुत्कर्ष इत्यर्थभेदाद् द्वितयोपादानम् । आयुष्यमस्तु चैत्रायेति-आयुः प्रयोजनमस्य घृतादेरायुष्यं घृतादि । ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्राप्नोति । यत आयुःशब्देन जीवितमेवाऽभिधीयते न तु जीवितकारणं घृतादिकं, उच्यते-कार्ये कारणोपचारात्, यथेन्द्रः स्थूणा । यदा त्वायुरेव भेषजादिस्वाथै व्यण्यायुष्यशब्दो निष्पाद्यते तदा निर्विवादं सिद्धमेव । तद्ग्रहणमिति-तर्हि 10 प्रागप्यर्थग्रहणमस्तु, सत्यम् । तदर्थानामाशिषि नियमार्थमिदम् ।
'परिक्रयणे'।२।२।६७ ॥ वेतनादीति-आदिशब्दाद्धाटकादिपरिग्रहः । करणाश्रयणं किमिति करणाश्रयणं विना परिक्रीयतेऽस्मिन्नित्यनया व्युत्पच्या मासादपि स्याच्चतुर्थी । शताय परिक्रीतो मासमिति-क्रीत इति रूपं कर्मणि कर्तरि वा, तथाहि-परिक्रीयते स्म परिक्रीतः कः? कर्मतापन्नश्चैत्रः, कं मासं ? कोऽर्थों मासे; यद्वा परि- 15 क्रीणीते स्म कर्तरि क्तः कर्मणोऽविवक्षितत्वात् । अथाऽत्र मासमिति कर्म विद्यते तत्कथं कर्तरि क्तः ? उच्यते, मासमित्यत्र " कोलाध्वभाव० " इत्यनेनाऽऽधारस्य युगपत्कर्मसंज्ञाऽकर्मसंज्ञा च, तत्र कर्मसंज्ञायां कर्मणि द्वितीया, अकर्मसंज्ञायां तु कर्तरि क्तः।
'शक्तार्थवषड्नमास्वस्तिस्वाहास्वाधाभिः'।२।२। ६८ ॥ पृथग्योगाद्वेति निवृत्तमिति-तत्र कश्चित् सामस्त्येन पृथग्योगः कश्चिदेकदेशेन सम्भवति । 20 अत्र तावदेकदेशेन, तथाहि-हितसुखाभ्याभित्यनेन स्वस्तिशब्दस्यैकयोगाकरणात् । एकयोगे च कृतेऽनाशंसायां हितसुखस्वस्तिभिरित्यनेन आशंसायां तु तद्भद्रेत्यनेन, तदिति पूर्ववस्तुपरामर्शेन क्षेमद्वारेण वा विकल्पः सिद्ध एव, तदकरणाद्वेति विकल्पमित्यर्थः । ननु कथमत्रैकदेशेन पृथग्योगो न सामस्त्येन ? उच्यते-तद्भद्रेत्यत्र व्यभिचारात् । तथाहि तद्भद्रेत्यत्राऽर्थपरो निर्देशोऽयं तु शब्दपर एवेति । “ परिक्रयेणे" 25 इत्यनेन त्वेकयोगत्वं न व्याख्येयमर्थस्याऽसङ्गतेः । तत्र हि परिक्रयणे वर्तमानानाम्न इत्युक्तम् । अनेन त्वेकयोगे वषडादिवत् परिक्रयणशब्दस्वरूपपरिग्रहः स्यादिति । परत्वान्नित्यमेवेति ननु " स्पर्धे " परः समानविषयो स्पर्ध इति समानविषयत्वं,
१२-२-८५ । २ २--२-२३ । ३ २-२-६७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org