________________
( १२० ) त्मनेपदम् । वाचा मात्रादिशरीरस्पर्शने नाऽहं जाने न मया कृतमिति मैत्रं ज्ञापयतीत्यर्थः । केचिचिति भोजशाकटायनाः । यस्तु मैत्रादिर्जानन् ज्ञाप्यते तत्र न भवतीति । तथा चाऽन्येषां ग्रन्थे द्विकर्मकोऽयं ज्ञापितस्तत्र केचिद्यस्मै आख्यायते तत्
ज्ञाप्यं सम्प्रदानत्वेन प्रतिपन्नाः । केचिद्य आख्यायते तमिति । 5 'तुमोऽर्थे भाववचनात् '। २।२ । ६१ ॥ भवनं भावो “ भावाकोंर्घ "
वक्तीति ब्रवीतीति वा " रेम्यादिभ्यः कर्तरि " अनट् । भावस्य वचनो भाववचनस्तस्मात् । पाकायेति-पक्तुं पक्ष्यत इति वा वाक्ये " भाववचनाः ” इति घनादयः ।
'गम्यस्याप्ये'।२।२। ६२ ॥ शब्दो ह्यर्थवानपि अप्रयुज्यमानः प्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चाऽर्थप्रकरणशब्दान्तरसन्निधानः प्रतीयमानार्थः स च 10 गम्य इत्युच्यते । एधेभ्यो व्रजति-नन्वेधार्थं व्रजतीति तादर्थ्य एव चतुर्थी भविष्यति किमनेन ? उच्यते-व्रज्याया एधाहरणार्थतायामिति न सिध्यति ।
'गतेनर्वाऽनाप्ते ' । २।२।६३॥ गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात् पादविहरणरूपैव गतिर्गृह्यते । ज्ञानादिव्याप्यस्याऽनाप्तत्वासम्भवादित्याह
गतिः पादविहरणमिति । स्त्रियं गच्छति-भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी । 15 पन्थानं गच्छतीति-अनाप्तेऽसम्प्राप्ते कर्मणि चतुर्थी, पन्थास्तु सम्प्राप्त इति चतुयेंभावः । चतुर्थी चेत्यन्य इति विश्रान्तन्यासकर्ता यशोनन्दी।
'मन्यस्यानावादिभ्योऽतिकुत्सने'। २।२।६४ ॥ न त्वाबुसाय मन्ये बुस्यति त्यजत्युपादेयभावमिति “ नाम्युपान्त्य० " इति के बुसम् । न त्वा नावं मन्ये, नावादयो लक्ष्यदर्शनेनाऽनुसतव्याः। अथ नावन्नयोरत्यन्तोपकारकत्वात् कथमतिकुत्स20 नत्वं गम्यत इत्याह-नावन्नयोरपीति । परेण स्वेच्छयाऽभिमतं स्थानं पराधीनवृत्ति
त्वात् प्रकर्षण नीयत इति परप्रणेयस्तस्य भावः परप्रणेयता । अनायासोच्छेद्यतादिभि. रिति-आदिशब्दादचेतनत्वविनश्वरत्वादिग्रहः । कुत्स्यतेऽनेनेति-युष्मदोऽपि मन्यव्याप्यत्वात् पक्षे चतुर्थी प्राप्नोतीत्याह-युष्मदो न भवतीति । कुत्सामात्रेऽपीच्छन्त्येके
इति पाणिन्यादयः । परत्वात्षष्ठीति-" कर्मणि कृतः " इत्यनेन तृणशब्दानित्यं षष्ठी। 25 युष्मच्छब्दात्तु " वैकत्र द्वयोः” इति षष्ठीविकल्पाद् द्वितीया । यदा तु युष्मदग्रतः
“ कर्मणि कृतः" इत्यनेन नित्यं षष्ठी तदा तृणशब्दाद् “ वैकत्र द्वयोः " इत्यनेन विकल्पेन षष्ठी । तद्विकल्पपक्षे चतुर्थ्यपि । न तव तृणाय मन्ता तृणस्य मन्ता तृणं मन्ता वेति । चतुर्थ्यपीति कश्चिदिति-अजितयशोवादी दुर्गसिंहश्च । “ कर्मणि कृतः" इत्यनेन
१५-३-१८।२५-३-१२६ । ३ ५-३-१५।४ ५-१-५४ । ५ २-२-८३। ६ २-२-८५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org