________________
( ११८ )
"
मीयेते तदा इक नाऽगच्छति मेयवाचित्वाद् द्रोणस्य । यद्वा द्वयोद्रणयोः समाहारो द्विद्रोणम् | पात्रादित्वात् स्त्रीत्वाभावः । अत्र द्रोणो व्रीहिराढको व्रीहिरितिवत् द्रोणशब्दो मेयवृत्तिस्तेन धान्यस्य समानाधिकरणो द्विद्रोणशब्दः । एवं पञ्चकेन पशून् क्रीणातीति- पश्चेतिसंख्यामानमस्य “ संख्यायाः सङ्घसूत्र ० इति यथा विहितः 5 “ संख्यैाडतेश्चा०” इति कः, पञ्चकं पञ्चकं सङ्कं पशून् क्रीणातीत्यर्थः । पञ्चकं पञ्चकमित्यत्र पशुसामानाधिकरण्येऽपि पञ्चकशब्दाद् ब्राह्मणाः सङ्घ इतिवदेकवचनम् । द्विद्रोणादय इति - आदिशब्दस्य प्रकारार्थत्वात् येभ्यो वीप्सायां प्रयोगे तृतीया गम्यते ते द्विद्रोणादयः, न तु गर्गादिवत् सन्निविष्टा इति ।
' समो ज्ञोऽस्मृतौ वा ' । २ । २ । ५१ ।। संजानीते इति - संप्रतेरस्मृतावि10 त्यात्मनेपदम् ।
6
दामः सम्प्रदानेऽधर्म्य आत्मने च ' । २ । २ । ५२ ।। नन्वनेन ब्राह्मणेन दानं प्रवृत्तमित्यादिवत् सम्प्रदानस्य करणत्वविवक्षायां दास्या सम्प्रयच्छत इत्यादौ तृतीयोत्पत्तेः किमर्थमिदमारभ्यते १ यद्वा सहार्थ इयं तृतीया । दास्यै स्वयं धनं ददाति साऽप्यात्मानं तस्मै ददातीति । दानपूर्वके सम्भोगे दाम् वर्तते । दत्त्वा 15 दास्या सह सम्भुङ्क इति । एवं चात्र क्रियाव्यतिहारोपपत्तेस्तद्वारेणैवाऽऽत्मनेपदम् । अत्रोच्यते - एवं हि धात्वन्तरेऽपि विनाऽपि समुपसर्गेणाऽधर्मत्वाभावेऽपि स्यात् । द्रव्यं वृषल्या सम्प्रयच्छत इत्यत्राऽपि सम्प्रदानविवक्षायां चतुर्थी स्यात् । अत इह चतुर्थीप्रत्युदाहरणेषु च तृतीया मा भूदित्येवमर्थमिदं वक्तव्यम् । विवक्षयाऽपि न सिध्यति । विवक्षानियमो हि विना वचनेन दुरधिगम इतीदमारभ्यत इति । ननु 20 सम इति परदिग्योगलक्षणा पञ्चमी ततश्च पञ्चम्या निर्दिष्टे " परस्य तच्चाऽनन्तरस्येति प्रशब्दव्यवधाने न प्राप्नोतीत्याह- इह संपूर्वस्येति । यद्वा सम इति पूर्वत्र पश्चम्यन्तमपीह लक्ष्यवशात् पष्ट्यन्तं विज्ञायते । तत्र व्यवधानेऽपि समा द्योत्यमानार्थत्वाद्दामः सम्बन्धोपपत्तेर्भवत्येव विधिः ।
46
' तादर्थ्ये ' । २ । २ । ५४ || यूपाय दारु - अत्र यूपादिहेतुभूतस्य दावदिर्हेतु26 तृतीया नाऽगौणत्वात् ।
,,
रुचिकृत्यर्थ धारिभिः प्रेयविकारोत्तमर्णेषु ' । २ । २ । ५५ ।। मूत्राय कल्पते यवागूः - यवागूः कर्त्री सम्पद्यते किं सूत्रं ? मूत्ररूपमित्यर्थः । ननु मूत्रयवागू शब्दयोर्द्वयोरपि सम्पद्यत इति क्रियया सह सम्बन्धाद् गौणत्वाभावात् कथं मूत्रशब्दा
१
१ ६-४-१७१ । २ ६-४-१३० ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org