________________
( ११७ ) णेति । गोत्रेण काश्यपः, काश्यपो माठर इति च गोत्रभेदस्तेन गोत्रमानाख्यायते काश्यप इति । भेदग्रहणं किं ? यदि भेदग्रहणं न क्रियते तदा येन तद्वदाख्येत्युच्यमाने यष्टीः प्रवेशय इत्यत्रैव स्यादत्र हि यष्ट्यादिना तद्वानुपचारेणाऽऽख्यायते, अक्ष्णा काण इत्यादौ च न स्यात् । न यत्राऽक्ष्यादिशब्देन तद्वानिर्दिश्यते । अक्षि काणं पश्येति-काणशब्देन हि अक्षिभेदेनाऽक्ष्याख्यायते न तद्वांश्चैत्रादिः । षष्ठीनिवृत्त्यर्थं तु 5 वचनमिति-तथापि न विधेयमेतत्सूत्रं मा भूत् कादौ तृतीया, इत्थम्भूतलक्षणत्वादक्ष्यादेर्भविष्यति, यदाह-" इत्थम्भूतस्य काणस्य लक्षणं ह्यक्षि बुध्यते । ततस्तृतीया तेनैव तत्र सूत्रेण सिध्यति ॥१॥" अत्रोच्यते-अक्ष्यादेरित्थम्भूतस्य काणादिलक्ष्यस्य भेदाभावाल्लक्षणत्वानुपपत्तिर्यदाहोद्योतकरः
" लक्ष्यलक्षणभावो हि, भेदे सत्युपपद्यते ।
यथा छात्रकमण्डल्वो छात्रोपाध्याययोर्यथा ॥१॥" 'काले भान्नवाऽऽधारे' । २।२। ४८ ॥ कालयति प्रक्षिपति पर्यायान् द्रव्येष्विति स्वार्थिकप्रत्यया नाऽतिवर्तन्ते, प्रकृतिलिङ्गवचनानीति-कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव । पुष्येण पायसमश्नीयात-पुष्येण चन्द्रयुयुक्तेनेत्यादिप्रक्रियायां पुष्यशब्दः काले वर्तते । पयसि संस्कृतं भक्ष्यं “ संस्कृते भक्ष्ये " अण् । 15 पयसा संस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन " संस्कृते " इति सूत्रेण इकणेव भवति । अध्वनि मा भूदिति-अत्र विशिष्टतारकावच्छिन्ने क्षेत्रे षुष्यमघाशब्दौ वर्तेते, न काल इति । चित्रा माणविकेति-यद्यपि चित्राशब्दो माणविकायां वर्तमानः कालमध्युपाधित्वेनोपादत्ते । यतश्चित्रासु जाता या सा चित्रेति विशेषणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्तिः सम्भाव्यते । तथापि तत्र कालस्य गौणत्वाद् गौणमुख्ययोश्च मुख्ये 20 कार्यसम्प्रत्ययान भवति । स्वावच्छिन्ने काले इति-स्वेनाऽऽत्मनाऽवच्छिद्यते विशिष्यते यस्तिलच्छेदतिलपुष्पविशिष्टः कालः। कोऽर्थो ? यत्र काले तिलाः पुष्यन्ति तिलानां छेदश्च भवतीत्यर्थः।
'प्रसितोत्सुकावबद्वैः' । २।२। ४९॥ ननु प्रसितशब्दस्य शुक्गुणवचनस्य क्रियार्थस्य च सम्भवादुमयार्थस्याऽपि ग्रहणप्रसङ्ग इत्याह-साहचर्यादिति । 25
'व्याप्येद्विद्रोणादिभ्यो वीप्सायाम् ' । २।२।५० ।। द्विद्रोणेन धान्यं क्रीणातीति-द्वोणी मानमस्य धान्यस्य " मानम् ” इतीकण, तस्य " अनाम्न्य० " इति लप् । यद्वा द्वौ द्रोणौ मेयावस्य धान्यस्य, कोऽर्थोऽनेन धान्येन द्वौ द्रोणौ १६-२-१४० । २ ६-४-३ । ३ ६-४-१६९ । ४ ६-४-१४१ ।
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org.