________________
( ११६ ) प्राप्तिः, तर्हि धर्मश्रित इत्यादावपि समासे द्वितीयादिप्रसङ्गः स्यात् ? तन्न, कर्मादिशक्तेः सम्बन्धस्य च समासेनेवाऽभिहितत्वात् । तर्हि नामार्थमात्रे प्रथमा भवतु ? तदपि न, आख्यातपदसामानाधिकरण्ये प्रथमा। तर्हि नीलोत्पलमित्यादिषु नीलेन
सहाऽऽख्यातपदसामानाधिकरण्ये कथं न प्रथमा ? उच्यते-तत्रापि सामानाधि5 करण्यं नास्ति, अन्यथा सापेक्षत्वे समासोऽपि न स्यादिति । तर्हि कमण्डलु
पाणिशब्दादुपसर्जनीभूतलक्षणात्तृतीया प्राप्नोति ? न । लक्षणस्य प्राधान्ये तृतीया न लक्ष्यस्येति न भवतीति शाकटायनः।
'सहार्थे ' । २।२। ४५॥ तुल्यः साधारणोऽप्रधानस्य प्रधानेन क्रियादिना यः सम्बन्धः-स तुल्ययोगः, विद्यमानता चेति । ननु च विद्यमानतायामपि 10 तुल्ययोगोऽस्त्येव सत्तया सहोभयोः सम्बन्धात्तथाहि-' सहैव दशभिः पुत्रैर्भार वहति
गर्दभी' इति सहैव दशभिः पुत्रः सतीति शक्यं प्रतिपत्तुम् , तत्र विद्यमानता चेति तुल्ययोगात् किं पृथगू निर्दिश्यते ? उच्यते-विवक्षितयोगाभावात् , सहैव दशभिरित्यत्र वहनमात्रं विवक्षितं तद्गर्दभ्या एव न तत्पुत्राणां यथा पुत्रेण सहाऽऽगत इत्या
गमनमुभयोरपीति तुल्ययोगाद्विद्यमानता मिना । 15 'यद्भेदैस्तद्वदाख्या' । २।२। ४६ ।। भिद्यते वस्तु एभिरिति भेदा यस्य
भेदिनचक्षुरादेर्भेदैः काणत्वादिभिस्तद्वतश्चक्षुरादिमतः पुरुषादेस्तत्प्रकारवदर्थयुक्तस्य कोऽर्थः स प्रकारवानक्ष्यादिरर्थस्तेन युक्तस्य चैत्रादेराख्या निर्देशो भवति, तद्वाचिनोऽक्ष्यादिवाचिनस्तृतीया भवतीत्यर्थः । अक्ष्णा काण:-अक्षि काणं चाऽकाणं च भवतीति
तेन काणत्वादिना भेदेन तद्वांश्चैत्रादिनिर्दिश्यते । शिरसा खल्वाट:-स्खलन्त्यपगच्छन्ति 20 केशा अस्मादिति कपाटेत्यादिशब्दात् साधुः । प्रकृत्या दर्शनीय:-प्रकृतिः स्वभावस्त
द्भेदो दर्शनीयत्वम् , स्वभावो हि दर्शनीयत्वमदर्शनीयत्वं च भवति तद्भेदेन दर्शनीय इति प्रकृतिमानाख्यायते । प्रैतीति " तन्व्यधी० " इति णे प्रायः, तद्भेदो वैयाकरणत्वं तार्किकत्वं चेति तद्भेदेन वैयाकरण इति तद्वानिर्दिश्यते । ननु च प्रकृत्या दर्शनीयः
प्रायेण वैयाकरण इति युक्तः प्रयोगः, दर्शनीयत्वं हि प्राकृतं वैकृतं चास्ति, वैया25 करणत्वं च प्राकृतमन्यच्च तत्रेतरव्युदासाथ प्रकृत्या प्रायेणेति चाऽर्थवत् । काण
इत्यादिप्रयोगे त्वक्ष्णेत्यादिरव्यभिचारेण प्रतीतेरयुक्तः प्रयोगार्थस्य गतत्वात् , उच्यतेलोकोऽत्र पर्यनुयोक्तव्यो योऽर्थवतोऽनर्थकतामनपेक्ष्य प्रतीतेऽपि शब्दान् प्रयुङ्क्ते, लोके च न सर्व एवं सूक्ष्मेऽक्षिकया शब्दान् प्रयुङ्क्ते, यद्वा सूक्ष्मेऽक्षिकया प्रयोगेऽप्युपचरितार्थनिवृत्तिरक्ष्णा इत्यादिप्रयोगे प्रयोजनं ? सत्यं, अयं काणो न तूपचारे१५-१-६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org