________________
( ११५ ) प्रस्तुता तथापि सामर्थ्यात् क्रियाव्याप्तेरेव सिद्धाविति विशेषणम् । द्वितीयापवाद इतिकालाध्वनोाप्तर्विद्यमानत्वात् पूर्वेण द्वितीयायां प्राप्तायां तद्भाधनार्थो योगस्तेन यदु. च्यते कैश्चिन्मासेनाऽनुवाकोऽधीत इति करण एवं तृतीया इतीदं नाऽऽरम्भणीयमिति तदसम्यगिति ।
'हेतुकर्तकरणेत्थम्भूतलक्षणे'।२।२। ४४ ॥ फलसाधनयोग्य इति- 5 फलं कार्य तस्य साधनं निष्पादनं करणमिति यावत्तत्र योग्यः सामान्यतो दृष्टसाम
र्थ्यः । योग्यग्रहणमन्तरेण फलसाधन इत्युच्यमाने यः फलं साधयति क्रियाविष्टस्तत्र प्रतिपत्तिः स्यात्, योग्यग्रहणेन तु योग्यतामात्रप्रतिपत्तावकुर्वन्नपि तत्फलं हेतुरिति । योग्योऽत्र निर्व्यापारो गृह्यते सव्यापारत्वे तु कर्तृत्वमेव । धनादीनि कुलादिकमकुर्वन्त्यपि योग्यतामात्रेण तृतीयामुत्पादयन्ति । यत्राप्यनेन वसतीत्यादौ तत्रापि 10 क्रियायामन्नादेर्योग्यतामात्रविवक्षितेति हेतावेव तृतीया इत्थंभूतलक्षण इति ।
अयं प्रकार:-इत्थं भूयते स्म गत्यर्थेति क्तः, तस्य ग्रहणमिति विग्रहः । स लक्ष्यते येनेति त्वर्थकथनमात्रं । इत्थम्भूतग्रहणमिति-नन्वित्थम्भूतग्रहणं किमर्थ ? यतो लक्षणे इत्युक्तेऽपि अपि भवान् कमण्डलुना छात्रमद्राक्षीदित्यायुदाहरणानि भविष्यन्ति । अथेत्थं भणिष्यन्ति भवन्तो वृक्षं प्रति विद्योतनमित्यत्रापि तृतीया स्यात्, 15 तन्न; यतो " भागिनि० " इति सूत्रेण प्रतिना योगे द्वितीया भविष्यति । एवं सति प्रतेरयोगेऽपि द्योतकत्वाद् वृक्षं विद्योतनं स्यात् , न तु वृक्षेणेति ? सत्यम् , इत्थम्भूतग्रहणमेवं ज्ञापयति यत्र साक्षात्प्रतिना योगो भवति तत्र “ भागिनि च प्रतिपर्यनुभिः” इति सूत्रेण द्वितीया भवति। अत्र तु वृक्षस्य विद्योतनमित्येव भवति । अपि भवान् कमण्डलुपाणिमिति-" विशेषणसर्वादि० " इति सूत्रेण विशेष- 20 णद्वारेण पाणेः पूर्वनिपाते प्राप्ते “ न सप्तमीन्द्वादिभ्यश्च” इति निषेधात् कमण्डलोः प्राङ्गिपातः। ननु वाक्यावस्थायां कमण्डलुशब्दात् किमिति न तृतीया ? उच्यते-वाक्ये आख्यातपदेन सामानाधिकरण्यमिति प्रधानत्वेन गौणत्वाभावात् , तर्हि समासे सति कथं न ? उच्यते-तदा लक्ष्यप्रधानत्वान्न । ननु समासे सति विभत्यन्तवर्जनानामत्वाभावे नाम्नो विहितायास्तृतीयायाः कथमत्र प्राप्तिः ? नैवम् , 25 " नाऽऽमन्त्र्ये " इति प्रतिषेधसूत्रकरणात् । तद्धि हे राजनित्यादिषु नलोपाभावार्थम्, तन्न युक्तम् ; प्राप्तिपूर्वको हि प्रतिषेधः। अत्र तु " नाम्नो नोऽनङ्गः " इत्यनेन हे राजनित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नाऽस्ति, तस्मानाऽऽमन्त्र्य इति प्रतिषेधसूत्रकरणानामकार्य प्रतिपन्नम् । ततः समासमध्येऽपि
१२-२-३७ । २ ३-१-१५० । ३ ३-१-१५५ । ४ २-१-९२ । ५ २-१-९१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org