________________
( ११४ ) अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादेः प्रधानत्वान्न ततो द्वितीया प्रामोतीत्याह-इह चेति । क्रियापेक्षमिति-आख्यातपदेनाऽसामानाधिकरणं गौणमिति गौणत्वस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । न विहन्यत इतितेन गौणत्वादजाशब्दादपि द्वितीया सिद्धा । 5 ‘क्रियाविशेषणात् ' । २।२।४१॥ प्रत्यासत्तेः क्रियाविशेषणं यत्समानाधिकरणं तस्मादेव द्वितीया। नन्विदं सूत्रं प्रथमाधिकारे क्रियतां प्रथमयाऽपि सर्वाण्यपि रूपाणि सेत्स्यन्ति ? उच्यते-पुण्यवांस्तमथो पचति शोभनं ते भार्यत्यादौ विकल्पः प्राप्नोति । निर्गुणा गुणाः क्रिया चेति वचनात् तत्कथं क्रियाया विशेषणस.
म्भवः ? सत्यमेतत् , किन्तु सजातीयस्य द्रव्योपाधिरपेक्षयोत्कर्षो दृश्यते; यथा-शुक्ल: 10 शुक्लतरः शुक्लतम इति रूपरसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्षाप
कर्षवृत्तित्वं भवति, तत्तूपाध्यन्तरयोगास्तदाहुस्तद्विदः, “ भवेद्विगुणमाधुर्यमनन्तगुणकालकं, द्रव्यचतुर्गुणोद्भुतगन्धमाम्रफलादिकं" ॥ १॥ यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेषसम्भवात शोभनं पचतीत्येवं विशेषणयोगः स्यात् ।
कथमन्यथा पापच्यते, पचतितरामित्यादौ तासामेकरूपत्वाद्यङादिप्रत्ययविधिः स्यात् । 15 ननु चाऽसवभूता क्रिया तदुपाधिस्तु सुतरामसत्त्वभूतस्तत्कथं सत्त्वाभिधायिना
नाम्ना प्रतिपाद्यत इति, उच्यते-धातुप्रकृतिवाच्याऽसत्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते तथोपाधिरूपापना तथा शोभनादिशब्देनेत्यदोषः। मन्दं गन्तेति-मन्दशब्स्य हि कर्मत्वे " गते वाऽनाप्ते” इत्यनेन
ततश्चतुर्थी स्यात् । यदा गन्तेत्यत्र तृच् तदा मतान्तरेण ग्रामशब्दाच्चतुर्थी । स्वमते तु 20 " कर्मणि कृतः” इत्यनेन परत्वात् षष्ठयेव भवति । यदा तु तन् तदा “ तृन्नुदन्ता." इति षष्ठीनिषेधात् स्वमतेऽपि चतुर्थी ।
'कालाध्वनोाप्तौ' ।२।२।४२ ॥ मासस्य मासे वो द्वयहं गुडधाना इति-अत्र व्यहशब्दादनेन द्वितीया मासशब्दात्तु व्याप्तेरभावान्न । एवमुत्तरेष्वपि ।
क्रोशस्य क्रोशे वैकदेश इति-अत्रैकदेशशब्दाद् व्याप्तेः सम्भवेऽप्यध्वनोऽभावे 25 द्वितीया न । अकर्मकत्व इदमिति-अयमों यदा शास्त्रादि कर्मणा इधातुः सकर्मको विवक्ष्यते । तदा " कालाध्वभावदेशं वा०" इत्यस्य प्राप्तिरेव नाऽस्ति तत्राऽकर्मणामिति भणनात् । यदा त्वविवक्षितकर्मत्वेनाऽकर्मको धातुर्विवक्ष्यते तदा " कालाध्वभावदेश वा.” इत्यस्य प्राप्तावप्यकर्मसंज्ञापक्ष आश्रीयते, कर्मत्वपक्षेहि कर्मणीत्येव सिद्धेः।
'सिद्धौ तृतीया' । २।२।४३ ॥ सिद्धाविति-यद्यपि त्रिप्रकारा व्याप्तिः १२-२-६३ । २ २-२-८३ । ३ २-२-९० । ४ २-२-२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org