________________
अन्ये त्वन्यथा वर्णयन्ति-वीप्सावीप्स्यमानयोः सम्बन्धो द्विर्वचनेनैव द्योत्यते न स्वभिना इति सम्बन्धमद्योतयताऽपि तेन योगे वचनाद् द्वितीयेति ।
'भागिनि च प्रतिपर्यनुभिः ।। २ । २ । ३७ ।। आभवतीति, आपूर्वको भूधातुर्भागागमे वर्तत इति हि धातुपारायणविदः । स्वीक्रियमाण इति-यस्त्वस्वीक्रियमाणेऽप्यंशे भागशब्दः प्रयुज्यते नगरस्य भागः प्रियङ्गोर्भाग इति स स्वीक्रियमाण- 5 भागसादृश्यादिति ।
'हेतुसहार्थेऽनुना'।२।२।३८॥ हेतुर्द्विविधो जनको ज्ञापकच, तत्र ज्ञापकस्य लक्षणत्वात् " भागिनि च० " इति सूत्रेण द्वितीया सिद्धेति जनक एवेह गृह्यत इत्याह-हेतुर्जनक इति । तुल्ययोग इति-ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथं ततो द्वितीयेत्याह-तद्विषयोऽपीति । देवेन्द्रमुपपातयति 10 कर्मणोऽणि देवेन्द्रोपपातम् । तुल्ययोगोऽभिन्नैः सह विद्यमानता तु मिन्नैरित्यनयोर्भेदः । विद्यमानतायामनु कर्माणि संसारीत्युदाहरणं ज्ञातव्यम् ।
'उत्कृष्टेऽनूपेन' ।२।२ । ३९ ॥ उत्कृष्टशब्दो हीनापेक्षस्तेन हीनोत्कृष्टसम्बन्धेऽनुना द्योत्ये द्वितीयाऽनेन विधीयते । _ 'कर्मणि' । २ । २ । ४० ॥ शब्दप्रयोगायोगादिति-अर्थप्रत्यायनाय हि 15 लोके शब्दः प्रयुज्यते, स चाऽर्थो यदा शब्दान्तरेण प्रतिपादितः स्यात्तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्तव्यः । अनियताधाराणामिति-नहि भीष्मत्वादीनां कट एवाऽऽधारः किन्त्वन्येऽपि । 'न केवला प्रकृतिरिति-नाऽपदं प्रयुञ्जीतेति न्यायात् । तदेकयोगक्षेमत्वादिति अलब्धलाभो योगः, लब्धार्थपरिरक्षणं क्षेमस्तस्य देवदत्तादेयावेको योगक्षेमौ तयोर्भावः । कर्मादिसामान्यमिति-करणादिक्रियामात्रयोग्यमित्यर्थः। 20 तत्राऽपीति-सामान्यकर्माभिधानेऽपि । अन्तर्भूत इति-तत्राभिहितोऽपि कश्चिन्नाऽन्तर्भवति, यथा राज्ञः पुरुष इत्यत्र वाक्ये षष्ठ्या सम्बन्धोऽभिधीयते; न तु क्वचिदन्तर्भावमुपयातीति द्वयोरुपादानम् । तत्रेति-कर्मादिशक्तियुक्ते द्रव्य इत्यर्थः । स्वरूपकालभिन्नायामिति-कृताहृतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याऽऽहरेत्यादिका क्रिया भिन्ना । प्रधाना प्रधानक्रियेति-एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणा- 25 मसम्भवात् प्रधानाप्रधानक्रियाविषयैवाऽनेका शक्तिरिति, तक्रियापेक्षया शक्तेरपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते, तस्यास्तदनुबन्धित्वादित्युक्तम् । प्रधानशक्त्यनुरोधादित्यादि-अत्रैवोदाहरणान्तरं दर्शयति-यथा च ग्रामो गन्तुमिष्यत इति । ननु गौणानाम्नः कर्मणि द्वितीयेत्युक्तम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org