________________
( ११२ )
'गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेन तेनैर्द्वितीया ' २ | २| ३३ || गौणादिति, "तत आगते” प्रज्ञाद्यणि वा, अत्र सूत्रे येन तेनौ मुक्त्वाऽन्ये वाचकाः । समया पर्वतं नदी - निकटे निकटा वा । निकषति दूरभावं “ संमिनिकषिभ्यामाः " जहाति सौख्यं विचू, धयति निन्दाभावं " द्रागादय " इति निकषा हा धिक् शब्दानां 5 व्युत्पत्तिः । हा देवदत्तमिति - हा कष्टं देवदत्तस्य यतो वर्धते व्याधिः । अन्तरा निषधमिति - अन्तं राति " डिलें " इति आः । अन्तरेण गन्धमादनमिति - अन्तरे मध्ये नयति " केचित् " इति डे, " तत्पुरुषे कृति " इत्यपि " पूर्वपदस्था ० " इति णत्वे च । अतिवृद्धमिति - कुरूणामतिक्रमेण पाण्डवानां महद् बृहद्धलं वर्तत इत्यर्थः । येन पश्चिमामिति - अत्र येन तेनौ लक्ष्यलक्षणभावं द्योतयतः पश्चिमां प्रति लक्षीकृत्यगत इत्यर्थः । 10 अयं गतः कां प्रति पश्चिमां, पश्चिमाया लक्षणेन देवदत्तस्याऽप्रसिद्धं गमनं लक्ष्यते । अन्तराऽन्तरेणेति अथाऽन्तराशब्दः स्त्रियामावन्तोऽप्यस्त्यव्ययं च अन्तरेणेत्यपि अन्तरशब्दात्तृतीयायां भवति अव्ययं च । तत्र विशेषानुपादानात् सामान्येनोभयस्याsपि ग्रहणं कुतो न भवतीत्याह- साहचर्यादिति । समयादिभिर्निपातैः सहैकवाक्योपात्तवातावपि निपातावित्यर्थः । अन्येनापीति - द्विधा व्याख्येयं समयादिव्यतिरिक्तेन 15 यावच्छब्दापदनाम्ना नामव्यतिरिक्तेन धात्वादिनाऽपि योगे गौणान्नाम्नो द्वितीया भवतीति । अक्षं तृतीय नेत्रं पादे यस्य स तथा ।
20
'द्वित्वेऽधोऽध्युपरिभि' २ । २ । ३४ || “ सामीप्येऽधोध्युपरि ” इति द्वित्वम् । असामीप्याच्चेति-अत्रौत्तराधर्यमात्रं विवक्षितं न सामीप्यमिति द्वित्वाभावः ।
66
' सर्वोभयाभिपरिणा तसा । २ । २ । ३५ ।। सर्वादिविशेषणत्वात् विशेषंणमन्तः ” इति न्यायात्तदन्तप्रत्तिरित्याह-सर्वादिभिस्तसन्तैरिति ।
लक्षण वीप्स्येत्थम्भूतेष्वभिना ' | २ | २ | ३६ || समुदायस्येति-वनादेरित्यर्थः । इत्थंभूत इति - अनेन साधुत्वादिना प्रकारेणेत्थं इत्थं भवनं क्लीवे क्तः । इत्थम्भूतमत्राऽस्ति “ अभ्रादिभ्यः ” यद्वा इत्थं देवदत्तो भवत्यस्मिन् मात्रादौ " अद्यर्था ० " इति क्ते इत्थंभूतो मात्रादिः । " अव्ययं प्रवृद्धादिभिः " इति समासः । वृक्षं वृक्षमभिसेक 25 इति - अत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानां सेकं प्रति यस्तेषां साध्यसाधनभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते । वीप्सा तु द्विर्वचनद्योत्येवेति ।
"
१६-३-१४९ । २ उणा - ५९८ । ३ उणा - ८७० । ४ उणा - ६०५ । ५५-१-१७१ । ६ ३-२-२० । ७ २-३-६४ । ८ ७-४-७९ । ९ ७-४-११३ । १०७-२-४६ । ११५-१-१२ । १२ ३-१-४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org