________________
तक्रियाकारके पूर्वे यस्य स चाऽसौ सम्बन्धश्च स एव रूपं यस्याः शक्तेः सा तथा । नानीयं चूर्णिमित्यादिषु सर्वेषु बाहुलकात् करणादिष्वनीयादयः । उपचरितमपीतिअध्यारोपितमित्यर्थः । सहचरणस्थानतादर्थ्यवृत्तमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कटक-राज-सक्तु-चन्दन-गङ्गा शाटकानपुरुषेष्वतद्भावेऽपि तद्वदुपचारः । छत्रिणो गच्छन्ति-छत्रिसहचरिताः पुरुषा यान्तीत्यर्थः । शक्तिप्रधान- 5 मपीति-यत इत्यादिभ्योऽपादानादिशक्तीनां प्रतीयमानत्वे न शक्तिमतोऽर्थमात्रं शक्तिप्रधानम् । द्योत्यमपीति-प्राद्युपसर्गाणां क्रियार्थद्योतकत्वादन्यथोपसर्गत्वाभावात्तदर्थमात्रं द्योत्यमेवेति । स्वरूपमात्रमपि-सोपसर्गाऽनुपसर्गधात्वर्थस्यादिभिर्वैशिट्याऽप्रतीतेः। आगच्छतीत्यादिक्रियापदार्थ एव तदर्थ इत्यर्थः। नाम्न इति किं ? ननु वर्णस्य निरर्थकत्वाद्धातुवाक्यार्थयोश्वाऽसत्त्वरूपत्वान् संख्याया सत्त्वधर्मरूपत्वेन 10 तद्(प्र)वृत्यभावात् सच्चवाचिनो नाम्न एव प्रथमा भविष्यति किं नाम्न इत्यनेन ? उच्यते-यथा धातोरसत्त्ववाचित्वेऽपि साधनाश्रयामेकत्वादिसंख्यामाश्रित्य तिवादीनामेकवचनादीनि प्रवर्तन्ते तथा स्यादीनामपि प्रवर्तेरन् । एकवाक्यादप्यवयवगतां वर्णाच निरर्थकादपि स्वरूपगतां संख्यामाश्रित्य प्रथमा स्यादिति । वाक्याभ्यामिति-उपलक्षणत्वात् पदादपि । नत्वर्थमात्रे प्रथमेत्युक्तत्वात् मात्रग्रहणस्य चाधिकार्थ- 15 व्यवच्छेदकत्वाद्वीरपुरुष इत्यादौ सामानाधिकरण्येनाऽर्थमात्राद्विशेषणविशेष्यभावस्याऽधिकस्य प्रतीतेः प्रथमा न प्राप्नोति । समासविधानमपि प्रथमोत्पत्तेर्लिङ्गं न भवति । वीरं पुरुषमानयेति द्वितीयाद्यन्तानामपि समाससम्भवादिति प्रथमा न विधेया, नैष दोषः, आधिक्यस्य वाक्यार्थत्वाद्वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसर्गोपहितविशेषणभावात् स्वाथेमात्रनिष्ठात् प्रथमा विधीयते । एवं पुरुषशब्दादपि ।
'आमन्त्र्ये'।२।२।३२॥ प्रसिद्ध-तत्सम्बन्धस्येति-तेन पाण्डित्यदेवदत्तत्वा. दिना प्रवृत्तिनिमित्तेन सम्बन्धो यद्वा तेनाऽऽमन्यवाचिना देवदत्तादिशब्देन सम्बन्धः । प्रसिद्धस्तत्सम्बन्धो यस्य देवदत्तादेस्तस्य । तद्विषय आमन्व्य इति आमन्त्र्यपदं हि क्रियाविशेषणं भवति हे देवदत्त ! बजाम्यहमिति, अत्राभिमुखीकृतदेवदत्तविशिष्टा व्रज्या प्रतीयते । यदाह हरिः
" आमन्त्रितपदं यच्च, तक्रियाया विशेषकम् ।
व्रजानि देवदत्तेति, निघातोऽत्र प्रतीयते ॥ १॥" ततश्च देवदत्तादेः क्रियाविशेषणात् कर्माद्यतिरिक्तामन्त्रणसम्बन्धरूपे वर्तमानागौणात् प्रथमापवादः षष्ठी प्राप्नोति तद्भाधनार्थमिदमुच्यते । सम्बन्धश्चाऽऽमन्न्यामन्त्रणभावो विषयविषयिभावो वा ।
20
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org