________________
( ११० ) ल्यग्रादिरौपश्लेषिकाभिन्न औपचारिक आधार उच्यते, यदा त्वङ्गल्यग्रादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदोपश्लेषिक एवाऽऽधारोऽतएवाऽऽहु:
" आधारस्त्रिविधो ज्ञेयः, कटाकाशतिलादिषु ।
औपश्लेषिको वैषयि-कोऽभिव्यापक एव च ॥ १॥" 5 अक्ष्णोः प्रतिवसतीति-यथाऽक्षिस्थं तृणादि दुःखकारि तथा द्वेष्योऽपीत्यर्थः ।
'नाम्नः प्रथमैकद्विबही'।२।२। ३१ ॥ तत्रेति-एवं स्थिते सतीत्यर्थः । तेष्विति-पञ्चकस्य नामार्थस्य क्रमेण लक्षणमाह-जातिरिति नित्यत्वैकत्वे सत्यनेकत्र समवेता जातिः । अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभि
चारो नित्यद्रव्यवृत्तयोऽन्त्या विशेषा एकत्वाभावे विशेषेषु व्यभिचारः । अने. 10 कत्राऽभावे परमाणौ विशेषेण व्यभिचारः । सम्बन्धादीति-आदिशब्दानित्यद्रव्यवृत्त
योऽन्त्या विशेषा अतीन्द्रिय दृष्टिगम्या योगिसंवेदनीयास्तेऽपि स्वार्थः । स्वार्थ इति-स्वस्यैवाऽर्थः स्वार्थो विशेषणमसाधारणोऽर्थः प्रवृत्तिनिमित्तमिति । गौरितिजातिरनुवृत्तप्रत्ययहेतुरनुगतज्ञानहेतुः । अत्र तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्जातिः
स्वार्थः । शुक्ल इति-गुणः शुक्लत्वादिः । शुक्ल: पट इत्यादौ तद्विशिष्टस्य द्रव्य15 स्य प्रतीते( ज्ञानस्य )र्गुणः ( हेतुः ) स्वार्थः । गर्गस्याऽपत्यानि “ गर्गादेयंञ्"
" यबमो० " इत्यनेन लोपः। पञ्चाला इति-पश्चालानां राष्ट्रस्य राजानः पञ्चालस्य राज्ञोऽपत्यानि वा “ राष्ट्रक्षत्रियात्० ” अञ् स्वार्थस्य व्यवच्छेद्यमिति-अत्र कर्तरि षष्ठी स्वार्थेन व्यवच्छिद्यते । शक्त्याद्याश्रय इति-आदिशब्दात् स्वार्थपरिग्रहः।
यदर्थे सदसद्वेति-शब्दधर्मो लिङ्गमिति मतापेक्षया । भेदप्रतिपतिहेतुरिति-भेदो 20 विशेषज्ञानोत्पत्तिरूपस्तया हि पदार्थानां भेदः प्रतीयते । भेदः परिगणनं संख्येति
लक्षणत्वात्तस्याः । ननु नामार्थव्यतिरेकेणाऽन्येषामेकत्वादीनां विशेषणभूतानामभा. वादेक इत्यादौ प्रथमाया अभावः प्राप्नोतीत्याह-निमित्तमिति, निमित्तमेकत्व. संख्यालक्षणम् तद्वतस्त्वेकत्वसंख्यावतो यदेकत्वं तत्र विभक्तिप्रवृत्तिः । यथा वृक्ष
इत्यत्र वृक्षत्ववतो द्रव्यस्यैकत्वं प्रतिपाद्यते तथाऽत्राऽप्येकेन सामान्यमेकत्वं सिना 25 त्वेकत्वसंख्यावत एकत्वं प्रतिपाद्यते, यथा सामान्य दण्डमानय दण्डिनो दण्डमानय ।
त्यादिभिरिति-तिशब्देन तिवादय आख्यातप्रत्यया आदिशब्देन च कृत्तद्धितसमासा उच्यन्ते । व्यतिरिच्यत इति व्यतिरेकस्तस्मिन् व्यतिरेके नामार्थादतिरेके आधिक्ये द्वितीयाद्या विभक्तयो व्यतिरेकविभक्तयः। तत्पूर्वक-सम्बन्धरूपा चेति
१६-१-४२ । २६-१-१२६ । ३ ६-१-११४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org