________________
(१०९) इत्यर्थः । अत्रापि भुवः कर्तुः प्रभवोऽपादानमित्यपि न वक्तव्यम् । अत्यन्तमितिअन्तमतिक्रान्तम् । षड् योजनानीति-अत्र षड्योजनरूपस्याऽध्वनः शत्रुञ्जय इत्यनेनाऽध्वनोऽन्तेन सह गते गम्य इति सूत्रेण सामानाधिकरण्यं तस्माच शत्रुञ्जय इत्यस्मात् या प्रथमा विभक्तिः सा योजनानीत्यत्राऽपीति । गतानीति-चैत्रेण का षड् योजनानि गतानि अतिक्रान्तानीति योजनानां कर्मत्वम् । उपचाराद्योजनस्थनरगता- 5 पेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां कर्तृत्वं वा । गतेष्विति-अतिक्रान्तेवित्यर्थः । आग्रहायणीति-अग्रं हायनस्य " पूर्वपदस्थात्" इति णत्वम् । अग्रहायणेन मृगशिरसा चन्द्रयुक्तेन युक्ता पूर्णमासी “ चन्द्रयुक्तात्" इत्यण् । बलाहकमिति-तं प्राप्याऽन्तर्भूतण्यर्थो वा ।
'क्रियाश्रयस्याधारोऽधिकरणम्' । २।२। ३० ॥ आश्रीयत इत्याश्रयो 10 "भूख्यदो० " इत्यलि क्रियाश्रयः क्रियासम्पादक इत्यर्थः । आध्रियेते अवतिष्ठते क्रियाश्रयो कर्तृकर्मणी अस्मिन्निति " न्यायावाया०" इत्यादिना घजि । विचटनक्रियायामिति-विचटनमवयवानामुच्छूनता । हेतुत्वं प्रतिपद्यत इति-यदुक्तं
" कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ, शास्त्रेऽधिकरणं स्मृतम् ॥ १॥" विषयाय प्रभवति-" तस्मै योगादेः शक्ते " इतीकणि-वैषयिकम् । औपश्लेषिकमिति-"अध्यात्मादिभ्य इकण्"। गवि गोत्वं-अनवयस्याऽपि गोत्वादेर्व्यक्त्याद्यवयवान् व्याप्त्यावतिष्ठमानस्य व्यक्त्यादिरभिव्यापक एवाऽऽधारा । सामीप्यकमितिभेषजादिट्यणन्तात् स्वार्थे कः। नन्वाश्रय आधारो भवति, आश्रयश्च संयोगसमवायाभ्यां भवति । न चाऽवस्थितिक्रियाश्रयेण घोषादिना गङ्गादेः संयोगसमवायो स्तः ? 20 नैष दोषो यदायत्ता हि यस्य स्थितिः स विनाऽपि संयोगसमवायौ तस्याऽऽश्रयो भवति । यथा राजपुरुष इत्यत्र न राज्ञा सह संयोगसमवायो स्तः । अथ च तदधीनस्थितित्वाद्राजाश्रयः पुरुष इति लोके ठयपदिश्यते । नैमित्तिकमिति-अत्र " विनँयादिभ्यः" इतीकण् , युद्धे सन्नह्यते-सनहनादयस्त्वन्यत्रापि केनचिनिमित्तेन सम्भवन्तीति न युद्धादिर्वैषयिकः । औपचारिकमिति-अत्र " अध्यात्मादिभ्य इकण्” अन्य- 25 त्राऽवस्थितस्याऽन्यत्राऽध्यारोप उपचारः । अङ्गुल्यग्रे करिशतमिति-अत्र हि करिशतादीनामन्यत्राऽवस्थितानां केनापि प्रयोजनादिनाङ्गुल्यग्रादावध्यारोप्यमाणानामङ्गु
___15
१२-३-६४ । २६-२-६ । ३५-३-२३ । ४५-३-१३४ । ५ ६-४-९४ । ६ ६-३-७८ । ७ ७-२-१६९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org