________________
( १०८ )
""
;
इत्यलि, अवियि भावाकर्घञि वा । अवधीयते मर्यादी क्रियते बुद्धधा, “ उपसर्गाद्दः किः । गमनमिति - अपाय हेतुत्वात् गमनमप्यपायः । उपलक्षणं चेदं तेन परमातो विभागोऽपाय इति सिद्धम् । ग्रामादागच्छतीति- ग्रामादेरौदासीन्यमेवाडवान्तरव्यापारः । सार्थाद्धीनः - कर्मकर्तरि कर्मणि वात्र क्तप्रत्ययः । उपात्तविषयमिति - उप5 समीपे धातूना धात्वन्तरस्यात्तः स्वीकृतो विषयः स्वार्थो यत्र तत् । धात्वान्तरार्थाङ्गमिति - धात्वन्तरार्थोऽङ्गं विशेषणं यस्य धात्वन्तरार्थस्य वाऽङ्गम् । निःसरणाङ्गे इति-नि:सरणं चाsपायरूपमिति भावः । यदा तु बलाहकान्निःसृत्य कुसूलादादायेति च निःसृत्याssदायशब्दवन्तौ प्रयोग क्रियेते तदा विद्युतिपचिधातू केवले स्वार्थे विद्योतने विक्केदने च वर्तेते । निःसरति आददाति क्रियापेक्षया तु बलाहककुमूलयोर्निर्दिष्टविषय10 मपादानत्वम् । साङ्काश्यकेभ्य इति-सङ्काशेन निवृत्तं " सुपन्ध्यादेर्व्यः ” । तत्र भवाः प्रस्थपुर० ” इत्यकञ् । अत्र निर्धार्यन्त इति क्रिया प्रतीयते । अपायश्चेति - ननु कायसंसर्गपूर्वको विभागो मुख्यो बुद्धिकल्पितस्तु गौणस्ततश्च गौणमुख्ययोर्मुख्यस्यैव परिग्रहात् साङ्काश्यकेभ्य इत्यादौ कारकशेषत्वात् षष्ठी प्राप्नोति नैवम् साधकतमं करणमित्यत्र तमग्रहणेन गौणग्रहणस्याऽपि ज्ञापितत्वादुभयरूपस्याऽप्यपायस्य परिग्रह 15 इति । तथा चौरेभ्यो बिभेति-अत्र बुद्धिकृतापायस्य विद्यमानत्वाद्भीत्राणार्थानां धातूनां भयहेतुकमपादानमिति, यदन्यैरुक्तं तदत्र न वक्तव्यम् । भयमाकुलीभावत्राणामनर्थप्रतिघात इति । तेभ्यो निवर्तत इति निवृत्यङ्गे भये विभेत्यादयो वर्तन्त इत्युपात विषयमेतदपादानम् । अध्ययनात्पराजयते, भोजनात् पराजयत इति अत्र पराजिरसहने वर्तते । दुःखमध्ययनं दुर्वचं गुरवश्च दुरुपचारा भोजनमपि व्याधितस्याऽतृप्तिर्भुक्तवतो 20 वा विरसत्वादिना दुःखमिति ततो निवर्तत इति, पराजेरसोढेऽर्थे इति न वक्तव्यम् । तत्रासोढग्रहणात् पराजयतिरसहनार्थो गृह्यते, न तु शत्रून् पराजयते इतिवदभिभववृत्तिः । यवेभ्यो गां रक्षति - अत्र वारणार्थानामीप्सित इति न वक्तव्यम् । स्फुट एवेति - काय संसर्गपूर्वक इत्यर्थः । यदि निष्क्रामन्तीति - अयमर्थो यद्धि यतोऽपक्रामति तत्पुनस्तत्र न दृश्यत इति प्रसिद्धम् । इह तु तत्राऽस्ति दर्शनमित्याह - यदीति, अत्यन्ताय इति25 अत्यन्तमित्यर्थेऽव्ययं क्रियाविशेषणत्वादम् । सन्ततत्वादिति - निष्क्रमणस्येति गम्यते । अयमर्थ एतेऽवयवा निष्क्रान्ता अन्ये निष्क्रामन्तः सन्तीति । अन्यान्यप्रादुर्भावाद्वेति - अन्यावयवयोगात् समुदायोऽप्यन्यस्ततोऽन्यश्वाऽसावन्यश्चेति कार्यम् । समाहारे तु " यदादिः " इत्यनेनैकः शेषः स्यात्, यथा- बिलाद्दीर्घभोगो भोगी निष्क्रामन्नपि सततत्वात्तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थः । गङ्गा प्रभवतीति- - ततः प्रथममुपलभ्यत
66
१५-३-८७ । २६-२-८४ । ३६-३-४३ | ४ ३-१-१२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org