________________
( १०७ ) याऽपि “कादियञ्जनम्” इतिवत् । तरतमयोग इति-साहचर्यात्तरतमगतः प्रकर्षांपलक्ष्यते। स्वकक्षायामिति-स्वकक्षा स्ववर्ग इति यावत् । ननु यदि स्ववर्गेऽपि प्रकर्षो पेक्ष्यते तदाऽन्येषां करणानां किं स्यात् ? उच्यते-तदा करणान्तराणां सम्बन्धे षष्ठी स्यात् ।
'कर्माभिप्रेयः सम्प्रदानम् ' । २ । २ । २५ । इ' च “य ऐञ्चातः” इति ये गुणे “ उपसर्गस्या." इत्यलोपे । सम्प्रदीयते यस्मै बाहुलकादनट् । श्रद्धानुग्रहादिकाम्य- 5 येति-तथेति प्रत्ययः-श्रद्धा, अनुग्रह-उपकारः, आदिपदात् कीर्त्यपायाभावादिग्रहः । श्राद्धाय निगल्हते (गृह्णते) स्वयं श्राद्धं कर्तुं यजमानेनाऽऽकारितं द्विजान्तरं निन्दतीत्यर्थः । अभिग्रहणादिति-अभिरभिमतार्थः प्र आरम्भार्थः, केवलस्य हि ईयतेर्गमनं वाच्यं नाभिसम्बन्धस्ततोऽभिग्रहणं विशिष्टसम्बन्धप्रतिपत्त्यर्थम् । विशिष्टश्च सम्बन्धः कर्तुः श्रद्धानुग्रहापायापगमकामनाजनितः स चाऽत्र नाऽस्तीति । प्रेय इति 10 सूत्रे क्रियमाणे कर्मणा क्रियया यः सम्बध्यमानो भवति स सम्प्रदानसंज्ञ इत्युक्ते प्रतः पृष्ठं ददातीत्यत्रापि स्यात् । रजकस्य वस्त्रं ददातीति-परिपूर्ण मूल्यमलभमानस्य रजकस्य पराङ्मुखत्वं । छात्राय चपेटां प्रयच्छतीति-चपेटयाऽऽहतः सन् छात्रोऽभिमुखो भवति विनयपरो भवति ।
'क्रुद्रहेासूयार्थैर्य प्रति कोपः' । २ । २ । २७ ॥ शब्दशक्तिस्वाभा- 15 व्यात् क्रुधिद्रुही अकर्मकावेव । सम्बन्धषष्ट्यां प्राप्तायां सम्प्रदानम् । मनसा क्रुध्यतीति नाऽत्र मनस उपरि कोपो किन्तु तेन कृत्वाऽन्यस्य पुरुषादेः। कर्तुरपीति न केवलं विषयसप्तम्यां यं प्रतिकोपस्तस्य सम्प्रदानत्वमाधारमात्रत्वेन कर्तुरपि स्यादित्यर्थः शिष्यस्य कुप्यतीति-शिष्यस्य सम्बन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य । धनिनो द्रुह्यतीति-धनस्योपरि द्रोहो न तु प्राणानाम्। भार्यामीर्ण्यतीति-अन्येनाऽवलो- 20 क्यमानां न सहते । वृत्तौ मैनामितितात्पर्यार्थोऽकथि । द्विषेरपीत्यर्थत्वादिति-अप्रीतिमात्रामेव विवक्षितं न तु क्रुधादय इत्यर्थः। अत्रेदं विचार्यते-कोपाद्रोहादयो भिन्नस्वभावा व्याख्यातास्तत् कथं तदर्थानां यं प्रति कोप इति सामान्येनैतद्विशेषणमुपपद्यते । तेषां हि यं प्रति द्रोहो यं प्रतीा यं प्रत्यसूयेत्येव घटते, नैष दोषः, क्रोध. स्तावत्कोप एव द्रोहादयो द्विप्रकाराः केचित् कोपहेतुकाः केचिद्वस्त्वन्तरहेतुकाः। 25 तत्रेह पूर्वेषां ग्रहणं यथा स्यादुत्तरेषां मा भूदित्येवमर्थ यं प्रति कोप इति सामान्येन विशेषणमुपात्तम् अन्यथा व्यभिचाराभावादिदमनुपादेयं स्यात् ।
'अपायेऽवधिरपादानम् ' । २ । २ । २९ ॥ इंणक । अपायनं “ थुवर्ण ०"
११-१-१० । २५-१-२८ । ३ १-२-१९ । ४५-३-२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org