________________
(१०६ ) खेटकर्वटमडम्बादि गृह्यते । गोदोहमास्ते अत्र सामीप्यक आधारः, यदा तु विशिष्टः कालो विवक्ष्यते तदा नैमित्तिकोऽपि । एवमोदनपाक इत्यत्रापि । मासं पचतीतिअकर्मणामित्यत्र नित्याकर्मणामविवक्षितकर्मणां च सामान्येन ग्रहणमित्यविवक्षितकर्मकानुदाहरति । इदं गोदोहमासितं, अत्र बाहुलकात् षष्ठीप्राप्ति प्रति न कर्मता । 5 तेन " कर्मणि कृतः " इत्यनेन न षष्ठी । अत्राऽऽधारे क्तः प्रत्ययः, कथमिति ? पचादीनां सकर्मकत्वान्न प्राप्नोतीत्याशङ्कार्थः । पचत्योदनं मासमित्यादि-सर्वेऽप्यमी धातवः प्राप्त्युपसर्जने स्वार्थे वर्तन्ते ततो मासादिप्राप्येत्यादिरों भवति द्विकर्मकता च । अनेनेति न नूत्तरेण “ कालाध्वनोाप्तौ ” इत्यनेन कर्मण्यकर्मणि च द्वितीया
भविष्यति किमनेन विधानसूत्रेणेत्याह-अनेन कर्मसंज्ञायामित्यादि-कालावपेक्षयेद10 मुक्तं भावदेशयोस्तु द्वितीयार्थमिति तन्मते तु भावस्यैव द्वितीयार्थ न तु देशस्य, ते हि देशग्रहणं न कुर्वन्तीति । कालावनोाप्ताविति चेति-यद्यत्यन्तसंयोगे कालाध्वभावेति प्रवर्तते तर्हि " कालाधनोव्याप्तौ” इति व प्रवर्यतीत्याह कालेति । “कालीध्वनो०” रिति-गुणद्रव्ययोगे क्रियायोगे तु " कालावभावदेशं वा० " प्रवर्तत इत्यनयोस्तन्मते विभागः। 15 'साधकतमं करणम्'।२।२।२४ ॥ सिध्यतेर्णिगि “र्सिंध्यतेरज्ञाने" इत्या
त्वे णके तमपि च सिद्धम् । प्रकृष्टोपकारकत्वेनेति-प्रकर्षणं प्रकृष्टं तेनोपकारकम् । यद्वा प्रकृष्यते स्म प्रकृष्टस्ततः प्रकृष्टं च तदुपकारकं चेति कर्मधारयः । प्रकृष्टोपकारकत्वस्य को हेतुरव्यवधानम् । यद्वा प्रकृष्टोपकारकत्वमपि किंस्वरूपमव्यवधानमिति । अन्येषु मिलितेष्वपि कारकेषु लवनादिक्रिया दात्रादि विना न शक्यत इति कर्ताऽव्यवहितं 20 दानादि करणमपेक्ष्यत इति तस्य प्रकृष्टत्वम् । यत्प्रकृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्ताऽव्यवहितमपेक्ष्यते तदपि करणमेव । ननु प्रकृष्टोपकारकत्वं कर्तुरप्यस्ति तस्याऽपि करणत्वं प्राप्नोति, नैवम् ; तस्य स्वातन्त्र्यं लक्षणमस्ति । साधकतममिति-ननु सामग्रीतः क्रियासिद्धिस्तत्र कथं किञ्चित् साधकतमं किञ्चित्तद्विपरीत ? अन्वयव्यतिरेकाभ्यां हि
तत्र सर्वेषां सामान्यमवगम्यते तस्मात् क्रियासिद्धौ साधकतमस्य सम्भवो नाऽस्तीति 25 सम्भवं कल्पनया दर्शयति,-परमार्थवृत्त्या साधकतमत्वस्य सम्भवो नाऽस्ति यव्यापा
रानन्तर्येण तु क्रियासिद्धिर्विवक्ष्यते तस्य कल्पनया साधकतमस्येयं संज्ञा । ज्वलनरूप उत्पातनिपातरूपः पुण्यरूपश्च यथाक्रमं प्रयोगत्रयेऽवान्तरव्यापाराः । तमग्रहणमितिगौणमुख्ययोरिति न्यायात् साधकतमस्यैव भविष्यति किं तमग्रहणेनेत्याह-अपादाना दीति-अन्यैरपादानं प्रथममुक्तमिति तन्मतापेक्षयाऽपादानादीत्युक्तम् । यद्वा स्वमतापेक्ष
१२-२-८३ । २ २-२-४२ । ३ २-२-२३ । ४ ४-२-११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org