________________
( १०५) 'न'।२।२ । १८ ।। सन्धिना विजिगीपत इति समर्थन सह सन्धि कृत्वाऽन्येषां भूमि विजिगीषत इत्यर्थः । अत्र क्रियेत्यादि-क्रिया द्यूतरूपा तत्साधनं च अक्षा इत्यर्थः । शतस्य सुदेवमिति-अत्र सु इति निपातान्तरं नोपसर्गः, अत एव सुस्थितं दुःस्थितमित्यादौ षत्वं न भवति “ स्थासेनि० " इत्यनेन, यथा च सु इतिनिपातान्तरं नोपसर्गस्तथा दुरित्यपि ।
'करणं च'।२।२ । १९ ॥ चकारस्याऽन्यत्समुच्चेतव्यं नाऽस्तीति करणमेव प्रतीयते । करणस्य कर्मसंज्ञायामप्राप्तायां विधीयमानायां निर्वादयो धर्मा न चिन्त्या असम्भवात् । युगपद्भजतीति-फलं भवतु मा वा संज्ञाद्वयं तु सर्वप्रयोगेषु वेदितव्यम् । ननु संज्ञाद्वयं युगपनिरवकाशमिति न वाच्यम् अक्षैर्देवयते इत्यत्र चरितार्थत्वात् । करणं वेत्येवेति-न च विकल्पेऽपि युगपत्संज्ञाद्वयं भविष्यतीति वाच्यं, 10 विकल्पस्य पाक्षिकप्रवृत्तिनिवृत्तिफलत्वात् । प्रतिकार्यमिति-एकस्याऽपि कर्मणः करणस्य वा कार्य कार्य प्रति संज्ञाभिधायकानि सूत्राणि भिद्यन्त इत्यर्थः ।
'उपान्वध्यावसः'।२।२॥ २१॥ उपादिभिर्द्वन्द्वं कृत्वा ततस्ते पूर्वे यस्मात् स चाऽसौ वस् चेति बहुव्रीहिगर्भो विशेषणसमासः । शब्दशक्तिप्रामाण्यादन्वादिपूर्वो वसतिः स्थानार्थमाचष्टे, तत्साहचर्यादुपपूर्वस्याऽपि स्थानार्थस्य परिग्रहो न 15 तु भोजननिवृत्तिवचनस्येत्यत आह-अन्वादिसाहचर्यादिति-स्थानार्थद्योतकत्वादुपशब्दोऽपि स्थानार्थ इत्युक्तं स्थानार्थस्येति । ___ 'वाभिनिविशः' । २।२ । २२ ॥ अभिः पूर्वो यस्मान्नेः सोऽमिपूर्वः, अभिपूर्वश्वाऽसौ निश्वाऽभिनिस्ततः परो विट् तस्य “ मयूरव्यंसके. ” इति पूर्वपरयोलोपः । अमेनिस्तेन युक्तो विडिति वा, न तु द्वन्द्वः । अभिश्च निश्चेत्येवंरूपे द्वन्द्वे 20 हि अभिनिशब्दयोः प्रत्येकमभिसम्बन्धः स्यात् यथा-" उपान्वध्यावसः” इत्यत्र । व्यवस्थितविभाषेयमिति-नाऽत्र वाशब्दो विकल्पार्थो येन समकक्षतया द्वितीयासप्सम्यौ, किं तर्हि ? प्रयोगव्यवस्थयेति ।
'कालाध्वभावदेशं वाऽकर्मचाकर्मणाम् ' । २।२। २३ ॥ अध्वा गन्तव्यमिति-गमनाह तेनाऽध्वशब्दाभिधेयस्याऽध्वनः कर्मसंज्ञा न भवति । नासावध्व- 25 विशेषः क्रोशयोजनादिवद्गमनमर्हति,यद्वाऽर्थप्रधानोऽयं निर्देशस्तेन कालाध्वभावदेशानां साक्षात् प्रयोगे न भवति । अपि तु, तदर्थप्रतिपादकशब्दप्रयोगे । भावः क्रियेतिक्रिया घनादिवाच्या सिद्धताख्या न तु साध्यमानेत्यर्थः । पर्वतादिरिति-आदिशब्दात् १२-३-४० । २ ३-१-११६ । ३ २-२-२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org