________________
( १०४ ) 'रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि' । २।२। १३ ॥ रुजॉत् भने इत्यस्माद्भिदादित्वादङि रुजा। भावश्चेदिति-साध्यरूपस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्दः सिद्धरूपे भावे वर्तत इति तात्पर्यार्थः । चैत्रं रुजति,
अत्यशने वात इति-अत्र योऽत्यशनरूपो भावो न स कर्ता यस्तु वातरूपः कर्ता 5 स द्रव्यं न भावः।
'जासनाटकाथपिषो हिंसायाम्' । २ । २। १४ । 'नटण्' अवस्यन्दने इति, अवस्यन्दनं हिंसाभेदः। न तु णट् नृत्ताविति । अत्राऽप्यहिंसार्थत्वादित्येव हेतुः। आकारोपान्त्यनिर्देश इति-ननु जासनाटकाथेत्याकारः किमर्थो यतो
जसनटक्रथेति धातवः पठ्यन्ते, तेषां निर्देशे तथैव निर्देष्टव्यम् । अथ ण्यन्तनिर्देश10 स्तर्हि जासिनाटिकाथीति भवितव्यमित्याह-यत्राऽऽकारश्रुतिस्तत्रेति एवं क्राथिर्घटादिरिति-एवममुना प्रकारेणाऽपरमपि निर्णीयते, किं तत् ? क्राथिर्घटादिगृह्यते, न तु क्र अर्दिण् हिंसायामिति, यौजादिक इति वैयाकरणानां मतम् । धातुपारायणकारस्तूपलक्षणत्वात् यौजादिकोऽपि । ननु यथा घटादेईस्वः पक्षे निषिध्यते । तथा दस्यु
मुदजीजसिदित्यादौ “ उपान्त्यस्या० " इत्यस्याऽपि किं न निषेधः ? सत्यम् । यस्मिन् 15 प्राप्त एवेति न्यायाद् " घटादेः०" इत्यस्यैव निषेधः । अभावककार्थमिति-ननु हिंसाया रुजारूपत्वात् “ रुजीर्थस्या० " इत्यनेनैव कर्मविकल्पो भविष्यति किमनेनेति । अथ जासनाटकाथेत्याकारश्रवणार्थमिदं सूत्रं विधीयते तदा पिष्ग्रहणमत्राऽनर्थकं स्यात्तस्मात् पूर्वेणैव सिद्धेऽभावकर्तृकार्थमिति सिद्धम् ।
'निप्रेभ्यो नः' २ । २ । १५ ॥ संग्रहार्थमिति, यद्येतदर्थ तर्हि न प्रदेयं 20 यत्रापि व्यस्तविपर्यस्तौ निप्रौ भविष्यतस्तत्रापि नेः प्राद्वा परो हन्नस्तीति ?
उच्यते, तीन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसंज्ञानिवृत्यर्थम् । तेन चौरं विप्रहन्ति विनिहन्ति वेत्यादौ पूर्वेण नित्यं कर्मसंज्ञा । प्रहन्तीति-अत्र म्नामिति-बहुवचनाद् हन इत्यनेन णत्वाभावः।
'विनिमेयद्यूतपणं पणव्यवहोः' ।२।२।१६ ॥ शतं पणायतीति25 प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानां ग्रहणमिति सूत्रे पणेत्युक्तेऽपि पणायतेरिह ग्रहः ।
आत्मनेपदं तु प्रति अयं न्यायोऽनित्यः । इदं च कुतो लभ्यते ? " कमेणिक् " इत्यत्र णिडिति कारोपादानात् । गोपायतीत्यर्थ इति अनेकार्थत्वाद्धातूनाम् ।
--
१४-२-३५ । २ ४-२-२४ । ३ २-२-१३ । ४ ३-४-२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org