________________
( १०३) विशेषानुपादानादुभयत्र विकल्पोऽयमिति, कारयिता कटस्य देवदत्तं देवदत्तेन वेति । प्रथमप्रयोगे देवदत्तशब्दाद्वितीयप्रयोगे तु कटशब्दाद् “ वैकत्र द्वयोः” इत्यनेन प्राप्तषष्ठीविकल्पाद् द्वितीया, तद्विमुक्तकर्मणि “ कर्मणि कृतः” इत्यनेन षष्ठी यद्यत्र " वैकत्र द्वयोः' इत्यनेन षष्ठीप्रवृत्तिः स्यान्न विकल्पस्तदा द्वितीयकर्मणि “ कर्मणि कृतः" इत्यनेन नित्यं षष्ठी स्यात् , कर्वप्रधानदेवदत्तशब्दात्तु " द्विहेतोरेरूयणकस्य वा" 5 इत्यनेन प्राप्तकर्टषष्ठीविकल्पात्तृतीया । " वैकत्रद्वयो"रित्यस्य " द्विहेतोररुयणकस्य वौ " इत्यस्य च प्रवृत्त्युदाहरणं, कारयिता कटस्य देवदत्तस्य कटं देवदत्तस्य वेति गम्यमपि ज्ञेयमत्र तु निष्प्रयोजनत्वान्न दर्शितम् ।
'दृश्यभिवदोरात्मने' । २ । २ । ९ ॥ दर्शयते राजेति-अत्र । " अर्णिकर्म० " इत्यात्मनेपदम् । अभिवादयते गुरु शिष्यं शिष्येण वा मैत्र इति । 10 फलविवक्षायामात्मनेपदम् ।
'नाथः' । २।२।१०॥ कर्म वा भवतीति-कर्तुळप्यमित्यनेन नित्यं प्राप्ते पक्षे निषेधः साध्यः । आत्मनेपदविषयत्वं चेति-कर्बपेक्षयेदमुक्तं, भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमस्त्येव । सर्पिषो नाथते इत्यादिषु सर्वेषु कर्माभावपक्षे " शेषे " इत्यनेन षष्ठी।
'स्मृत्यर्थदयेशः'।२।२॥ ११ ॥ सामान्येन चिन्तनार्थ उक्तोऽपि स्मृतिर्धातुरनुभूतस्याऽर्थस्य विशिष्टे चिन्तने वर्तमानो गृह्यते । एवंविधाश्चाऽध्येत्यादयोऽपि गृह्यन्ते । तेन मनसा चिन्तनार्थानां समीक्षादीनां व्युदासः। लोकानामीष्ट इतिव्यापारेषु नियुङ्क्ते स्वायत्तीकरोतीत्यर्थः ।
'क्रगः प्रतियत्ने'।२।२ । १२॥ प्रतिशब्दः पुनरर्थे “ अध्ययं प्रवृद्धा- 20 दिभिः ” सः। सतो गुणाधानायेति-ननु यत्नद्वये सति पुनर्यत्न इत्युपयुज्यते तत्कथमत्र प्रतियत्नः १ उच्यते-प्रथमं तावदर्थस्याऽऽत्मलाभाय यत्नो भवति, लब्धा. स्मनो यो यत्नोऽधिकान् गुणानुत्पादयितुं परिपूर्णस्य गुणस्य वा तादवस्थ्यं रक्षितुं स प्रतियत्नः । कटं करोतीति-अभूतः सन्निवत्यः कटोऽत्र, यत्र तु वर्णिकया रक्तं कटं करोति तत्रापि विकार्यमेव कर्म न प्रतियत्नः, उपपूर्वस्य कराते प्रतियत्नवि- 25 षयत्वाद् “ गन्धना० " इत्यात्मनेपदं चोपपूर्वस्यैव । अत एव मूलोदाहरणेष्वप्युपपूर्व एव दर्शितः । एधोदकस्येति-एधाश्च उदकानि च, “ अप्राणिपश्वादेः” इत्येकत्वम् ।
१२-२-८५। २ २-२-८३ । ३ २-२-८७ । ४ ३-३-८८ । ५ २-२-८१ । ६३-१-४८ । ७ ३-३-७६ । ८ ३-१-१३६ ।।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org