________________
( १०२) भ्रमरैरिति " मुरैलोरल० " इति निपातनम् । खादयत्यपूपमिति-अत्र "चल्याहारार्थेङ० " इति परस्मैपदम् । आदयत्योदनमिति-अत्र फलवत्त्वाभावात् “ पैरिमुहा०" इति नाऽऽत्मनेपदम् । मतान्तरेण वा प्रयोगोऽयम् । ते हि “पैरिमुहा०” इत्यत्राऽदधातुमपठन्त आत्मनेपदं नेच्छन्ति ।
भक्षेहिसायाम् ' । २।२।६॥ भक्ष्यन्ते यवं बलीवर्दा यवानदन्तो, यवानां विनाशत्वेन हिंसा । ननु हिंसा हि प्राणव्यपरोपणलक्षणा सा च प्राणिन्येव चेतने सम्भवति कथमचेतने सस्ये । नहि तत्राऽऽयुरिन्द्रियबलोच्छ्वासलक्षणा रसमलधातूनां परिणतहेतवः प्राणाः सन्तीति ? अत आह-वनस्पतीनामिति-वृद्ध्यादिमत्त्वेनेति-वन
स्पतयः सचेतना वृक्ष्यादिमत्त्वात् । यो यो वृद्ध्यादिमान् स स सचेतनः, यथा पुरुषः । 10 वृक्ष्यादिमन्तश्चैते तस्मात् सचेतना इति । पश्चावयवमनुमानमिति । पूर्वपक्षहेतुदृष्टान्तो
पनयनिगमनस्वरूपम् । भक्षयति पुत्रानिति-ननु पुत्रभक्षणस्य हिंसात्मकत्वाद् भक्षयति पुत्रान् गायेति कथं कर्मकत्वाभाव इत्याह-न ह्यत्र गार्गी स्वयं पुत्रान् भक्षयति, न च तामन्यस्तत्र प्रयुङ्क्तेऽपि त्वेवमाक्रोशति भक्षय पुत्रानिति भक्षिन हिंसाविषयः।
'वहे प्रवेयः' । २ । २ । ७। सूत्रतात्पर्यमाचष्टे, तत्र वहतिः प्राप्त्यर्थों 15 यथा वहन्ति बलीवर्दा देशान्तरं प्राप्नुवन्तीति । प्रापणार्थो यथा-ग्राम भार वहति
बलीवदेः, ग्राम प्रापयतीति अत्रापि प्रापणोपसर्जन प्राप्तिरस्त्येव । अकर्मको यथा नदी वहति स्यन्दत इत्यर्थः । अनेकार्थत्वात् प्राप्त्यर्थो यद्वा प्रापणाया उपसर्जनीभूता प्राप्तिरप्यस्तीति गत्यर्थत्वात् प्राप्तिः । वाहयिता भारं बलीवनिति-अत्र बलीवर्द
शब्दाद् " वैकत्र द्वयोः" इति प्राप्तषष्ठीविकल्पाद् द्वितीया तद्विमुक्तपक्षे भारस्येत्यत्र 20 “ कर्मणि कृतः " इत्यनेन षष्ठी, द्वितीयप्रयोगे त्वेतद्विपर्ययः । “ वैकत्र द्वयों ” रिति
षष्ठीप्रवृत्युदाहरणं तु वाहयिता भारस्य बलीवर्दानामिति गम्यमपि ज्ञेयम् । अत्र तु निष्प्रयोजनत्वान्न दर्शितम् ।
'हक्रोर्नवा' । २।२।८॥ हसाहचर्यात् कृधातोरपि भ्वादेरेव गृह्यते तेन कृत् विक्षेपे, 'कुंग्ट्' हिंसायामित्यनयोर्व्यवच्छेदः । 25 प्राप्ते चेति-यदा हरतिर्गतौ वर्ततेऽभ्यवहारे वा, करोतिश्च वल्गनादावकर्मकः ।
विकुर्वन्तोऽसैन्धवा इति सिन्धुषु भवाः “सिन्ध्वपकरात्काऽणौ " इत्यण शब्दकर्मकश्च तदा पूर्वेण प्राप्ते, यदा तु हरतिः स्तेयादौ वर्तते करोतिश्च सकर्मको भवति तदाप्राप्ते
३ ३-३-९४ । ४२-२-८५। ५२-२-८३ ।
१ उणादि ४७४ । २ ३-३-१०८ । ६ ६-३-१०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org