________________
( १०१ ) प्राप्तिमात्रवाची । गम्यमानक्रियापेक्षयापि कर्मत्वं दृश्यते, यथा प्रविश पिण्डी द्वारमिति भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति । नैवम् एवं सति अजा नीयते ग्राममित्यत्र कर्मण्युत्पद्यमानेनाऽऽत्मपदेनाऽजा कर्मणोऽभिधानं न प्राप्नोति, यतो गृहातेरजा कर्म न नयतेरिति । तस्मादन्यकर्मत्वमजाया नैष्टव्यमिति । अकर्मणामिति-नित्याकर्मकाणामविद्यमानकर्मकाणां वेत्यर्थः। प्रधान एव कर्मणीति-ककर्मणि कर्मज: 5 प्रत्ययो भवतीति सम्बन्धः, प्राधान्यं च तस्य " गतिबोधाहारार्थ ० " इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् कर्तुः प्रथमप्रवृत्तिविषयत्वाद्वा । प्रधान एवेतिअन्यस्त्वप्रधानेऽपीच्छति तन्मतोपेक्षणाय अत्रैवकारः । आसयति मासं मैत्रमितिआस्ते मासं मैत्रस्तमासीनमपरः प्रयुते, मासस्य " कालाध्वभाव० " इति कर्मसंज्ञा । कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका इत्यन्यकर्मापेक्षयाऽकर्मका इह ग्राह्याः। 10 बोधयति शिष्यं धर्ममित्यत्र वाक्यस्य धर्मप्रतिपादनपरत्वेन धर्मस्य प्राधान्यं शिष्यादेर्गुणभावः । शिष्यादिसंस्कारपरायां तु प्रवृत्तौ शिष्यादेः प्राधान्यं धर्मस्य गुणभाव इत्युभयत्र कर्मजः प्रत्यय इति । पाठयति शिष्यं ग्रन्थमिति-अर्थस्य शब्देन प्रतिपाद्यत्वाच्छन्दस्य प्राधान्यं, शब्दस्याऽर्थपरत्वादर्थस्यैव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः । पयसा ओदनमिति-अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्या- 15 ङ्गत्वात् , यचाऽनन्याङ्गं तदेव व्याप्यमिति ।
'वा कर्मणा-मणिकर्ताणौ'।२।२।४ ॥ नन्वेवं तर्हि गत्यर्थादीनामप्यविवक्षितकर्मत्वे विकल्पः प्राप्नोतीत्याह-गत्यर्थादीनामिति । - 'गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायकन्दाम्'।२।२।५॥ न विद्यते कर्म येषां तेऽकर्माणो नित्यमकर्माणो नित्याकर्माण 20 इति, विस्पष्टपटुवत्समासस्ततो द्वन्द्वात्षष्ठीबहुवचनम् आहारस्य सुप्रसिद्धत्वाद्गतिबोधयोः स्वरूपमाह । गतिर्देशान्तरपाप्तिरिति । बुध्यते शिष्यो धर्मम्-अत्र हि बुध्यादयवक्षुरादीन्द्रियसाधनज्ञानविशेषस्याऽप्रतिपादनात्सामान्यबोध एव वर्तन्त इत्यर्थः । दर्शयति रूपतर्कमिति-रूपं तर्कयतीति " कर्मणोऽण्" इत्यणि रूपतर्कः । कर्षेणाऽऽ. प्यत इति “भुजिपत्यादिभ्यः०” इति कर्मण्यनटि, " पूर्वपदस्थः” इति णत्वे, प्रज्ञादि- 25 त्वात्स्वार्थेऽणि कार्षापणः । अत्र दृश्यादीनां चक्षुरादिसाधनजनितज्ञानविशेषबोधार्थतेत्यर्थः । अन्ये तु इति ते हि गत्यादिसूत्रे दृशिमुपादाय बोधार्थत्वेनैव सिद्धे दृशिग्रहणाहशेरेव विशेषबोधार्थस्य परिग्रहो नाऽन्येषामित्याचक्षते । उत्पलमिति-उत्पीयते
१२-२-५ । २२-२-२३ । ३ ५-१-७२ । ४ ५-३-१२८ । ५ उणा ४७४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org