________________
( १०० ) त्यस्य कृत्यप्रत्ययान्तस्य योगे " कृत्यस्य वा ” इति कर्तरि षष्ठी, ननु यदा द्वैतीयीकव्याख्यानं कर्तुः कर्म व्याप्यमिति क्रियते, तदा कर्मणा योगे कर्तृशब्दात केन सूत्रेण षष्ठी प्रावर्तिष्ट ? उच्यते कृच्छेषा उणादय इति कृत्वा कर्मशब्द औणादिकप्रत्ययान्तो
ऽपि कृदन्तस्ततस्तद्योगे “ कर्तरि ” षष्ठी । विकार्यमिति-विकार्यते स्वभावोच्छेदेना5 ऽन्यथात्वं लभ्यत इति । विकुरुत इति अन्यथा विकृतिमनुपगच्छतो वज्रस्येव विका
र्यत्वायोगः स्यात् । आभासमुपगच्छतीति-तथाऽऽभासाऽयोग्यस्य परमनिःकृष्टपरमाण्वादेरिवाऽऽभास्यत्वविरहः स्यादिति व्याप्यस्याऽऽभासगमनमवान्तरव्यापार इति । विषं भक्षयतीति-यदा भक्षणार्थमिति । चतुर्द्धा शास्त्रप्रवृत्तिस्तद्यथा उद्देशो विभागो
लक्षणं परीक्षा चेति द्योतकराचार्यः । ज्ञातं सद्भक्ष्यते तदैवानिष्टम् यदा तु राजभी10 तेन व्याध्यतिक्रान्तेन वा भक्ष्यते तदा इष्टमेव । गां दोग्धि पय इति-अन्तर्भूतण्यर्थाः
सकर्मकाः सर्वे तेनाऽयमों गौः कर्वी पयः कर्म मुञ्चति, तां गां मोचयतीति । गां स्रावयति पय इति-" गतिबोधा०" इत्यत्र बहुवचनादन्येषामप्यणिकर्तुः कर्मत्वं, तेन गवादीनामपि कर्मत्वं युक्तम् । नाऽत्र नियमः प्रवर्तते । एतेऽपीदृशा अपि द्विकर्मका
उच्यन्त इति । पौरवं गां भिक्षते, अस्ति राजा पुरुर्नाम, तदपत्यं “पुरुमगध०" इत्यणि 15 पौरवोऽयं च याच्यमानो हृष्टो म्लानो वा भवतीति विकार्य कर्म । भिक्षते कोऽथों
याचनापूर्वकं गां दापयति वियोजयति वेत्यर्थः । गामवरुणद्धीति-व्रज सेवमानां सेवः यतीत्यर्थः । पृच्छति कथापयति, वृक्षमवचिनोतीति-वृक्षः फलानि वियुङ्क्ते तं वियोजयतीत्यर्थः । अनुनयार्थ इति-तेन भिक्ष्यर्थमध्ये याचिद्वाराऽनुनयार्थानां न ग्रहः । भिक्षि
ञ्चिायामेव याचिस्तूभयार्थ इति । जयति-मोचयति । कर्षति-वियोजयति, मथ्नाति 20 वियोजयति, नयति प्रापयति, हरति वियोजयति प्रापयति वा, मुष्णाति कोऽर्थः ?
परस्वामिकं सन्तमात्मस्वामिकं करोति । गृह्णाति-त्याजयति । तन्दुलानोदनं पचति, तन्दुलान् विक्लेदयन् विकुर्वनोदनं करोतीत्यर्थो धातूनामनेकार्थत्वादिति ।
"येनाऽपविद्धसलिलस्फुटनागसमा, देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः, खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥१॥"
(किरा. ५. श्लो. ३०) नेतव्या वा ग्राममजेति-अजादेः प्राधान्यान्नेतुश्च पूर्व तत्रैव क्रियाप्रवर्तनादन्तरङ्गत्वाच्च तत्रैव प्रधाने कर्मज इति । केचिदाहुर्नाऽमी नयत्यादयो द्विकर्मकाः अन्यकमकत्वात्तथाहि-अजां नयति ग्राममजां गृहीत्वा ग्रामं यातीति ह्यत्राऽर्थः । नयतिस्तु
25
१२--२-८८ । २२-२-८६ । ३ ६-१-११६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org