________________
(९९) 'क्रियाहेतुः कारकम्' । २।२।१। क्रियायाः कारकमित्युक्त क्रियायां कर्तुर्मुख्यत्वात्तस्यैव कारकत्वं स्यात् । गौणमुख्ययोरिति न्यायात् । हेतुः कारकमित्युक्ते तु द्रव्यस्य मुख्यत्वात्तद्वेतोरेव कटं करोतीत्यादौ कारकं स्यान्न तु चैत्रो यातीत्यादौ । कारकः शब्दः कमात्रपर्यायः । कादीत्यत्र कर्तृशब्दस्तु कर्तृविशेषवचनस्तेन कादिकारकसंज्ञमिति विशेषणविशेष्यभाव उपपन्न इति, अन्यथा वृक्षो वृक्षसंज्ञ 5 इतिवदनुपपन्नः स्यादिति । तच्च द्रव्याणामिति द्रव्याणां सामर्थ्य कारकमिति सम्बन्धः। द्रव्यस्य तु कारकत्वे प्रतिबन्धकमन्त्रादिसनिधानासन्निधानाभ्यां दहनादेर्दाहादिक्रियोत्पत्यनुत्पत्ती न स्याताम् । तत्स्वरूपस्य सर्वदा विद्यमानत्वादुत्पत्तिरेव स्यात् , तस्माच्छत्तिरेव कारकमिति श्रेयः । चैत्रादेस्तु कारकत्वं शक्तिशक्तिमतोरभेदनयेन । स्वपराश्रयेति-अयमर्थः-त्रयी क्रिया सा च चैत्र आस्ते इति स्वाश्रिता, कटं करोतीति 10 पराश्रिता; अन्योन्यमाश्लिष्यत इत्युमयाश्रिता । क्रियाकाल इति-क्रियायाः शक्ति प्रति ज्ञापनकालस्तत्र क्रियाकाले समवहितसकलोपकरणे शक्तिरभिव्यज्यते-प्रकटीक्रियते अवगता भवति । अभिव्यज्यते इति कर्मकर्तरि कर्मणि वा यथा क्रियया का शक्तिः प्रकाश्यते प्रकटीक्रियते । अभिव्यनक्ति प्रकटीकरोति क्रियाकी शक्तिः सैवं विवक्ष्यते नाऽहमभिव्यनज्मि किन्तु स्वयमेवाऽभिव्यज्यते शक्तिः । हेत्वादेरि- 15 त्यत्राऽऽदिशब्दात्सम्बन्धस्य सहार्थस्य चाऽकारकत्वं तेन विद्ययोपित इत्यादौ " कारकं कृता” इति न समासः, बहूनामिदं वस्त्रमित्यादौ " बहवल्पार्था० " इति शस् मा भूत् ।
'स्वतन्त्रः कर्ता '२।२।२। अत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रश्रुतिनियमार्था तेन स्वातन्त्र्यमेव यस्य तस्य कर्तृसंज्ञा, न तु पारतन्त्र्य- 20 सहितस्वातन्त्र्ययुक्तस्य । अपरायचतयेति-प्राधान्यं च क्रियाहेतुभूतयाऽपरायत्ततया । यद्वा, सामानाधिकरण्यं प्राधान्येन किं रूपेणाऽपरायत्ततया । प्रेषितः करोतिप्रयोज्यावस्थायामपि स्वातन्त्र्यस्याऽहानेः कर्तृत्वम् " यः क्रियां कर्मकर्तृस्था, कुरुते मुख्यभावतः। अप्रयुक्तः प्रयुक्तो वा, स कर्ता नाम कारकम्" ॥ १॥ आत्मप्रधानः, यस्याऽगुणभावेन धातुना व्यापार उच्यते सर्वोऽसौ स्वतन्त्र इति, रूढिश- 25 ब्दोऽयम् । यत्रैव करणादीन्यप्रधानानि सन्ति, देवदत्तः स्थाल्यां काष्ठेरोदनं पचतीत्यादौ तत्रैव कर्तृसंज्ञेत्येवं न किन्तु तदभावेऽपि तेनाऽऽस्ते शेत इत्यादावपि ।
'कर्तुाप्यं कर्म'।२।२।३॥ कर्तुरित्यत्र प्रथमव्याख्याने व्याप्ये
१३-१-६८ । २ ७-२-१५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org