________________
(१८) नाऽकारलोपः ? सत्यम् , सावधारणव्याख्यानाद् अपदे एवेति, अत्र तु वृत्तेः पूर्व पदत्वमासीदिति । तर्हि प्रायणमित्यत्र 'गति कारकेति' न्यायादविभत्त्यन्तेनाऽयनेत्य. नेन समासे प्राप्नोति, सत्यम् ; अपद इत्युत्तरपदमपि गृह्यते । " ते' लुगू वा" इति
उत्तरशब्दलोपादिति । यथा " वेदूतोऽनव्यय० " इत्यत्र । 5 'डित्यन्त्यस्वरादेः । २।१ । ११४ ।। सति यस्मिन् यस्मात् पूर्वमस्ति परं
नाऽस्ति सोऽन्तस्तत्र भवोऽन्त्यः । मुनौ अत्र सर्वत्र " इवर्णादेरस्वे० " इति प्राप्ते परत्वादनवकाशत्वाच्च डित्वस्य लुगेव । उपसरज इति-उपसरदेशजातः । मन्दुरजा-मन्दुरे मन्दुरायां वा जातः, " यापो बहुलं नाम्नि ” इति इस्वः।
'अवर्णादश्नोन्तो वाऽतुरीडयोः' ।२।१ । ११५ ॥ अवर्णादिति-ननु 10 तुदन्ती भान्तीत्यादौ ईड्योरनपेक्षत्वेन वर्णमात्राश्रयत्वेन चाऽन्तरङ्गत्वात् “ लुगस्या
देत्यपदे ” इति " समानानां० " इति च अकारलोपदीर्घत्वयोः कृतयोरवर्णात् परत्वं शतप्रत्ययस्य नाऽस्तीति तत्कथमीकारावर्णशतप्रत्ययङीभावापेक्षत्वेन बहिरडोऽन्त इत्यादेशो भूतपूर्वतयेति, 'वार्णात् प्राकृतं बलीय' इति तु नेहोपतिष्ठते भिन्नकालत्वात् ।
तथाहि-ईयोः सद्भावेऽन्तादेशः प्राप्नोति लोपदीक़ तु ततः प्रागेव । यत्र हि वार्ण15 प्राकृतयोर्युगपत्प्राप्तिः कारक इत्यादौ तत्रेदमुपतिष्ठत इति ।
__'दिव औः सौ'।२।१ । ११७ ॥ द्यौरिति, अत्र " उः पदान्ते० " इति प्राप्तोऽप्यचरितार्थत्वात् साविति विशेषविधानाद्वा औरेवाऽनेन प्रवर्तते, न तूकारः, अक्षद्युरिति-एकेदेशमिति प्राप्तिः।
'उः पदान्तेऽनूत्'।२। १ । ११८ ।। दिवाश्रयः अन्तर्वर्तिनी विभक्तिमाश्रित्य 20 पदत्वेऽनेनोत्वे कथं दिवाश्रय इत्यादीत्यत आह-अकारागमे भविष्यतीति, अकारा
गमे चाऽकारागमकराणसामर्थ्यादेव उन । विभक्तेः पूर्व वाऽकारागमे पदान्तत्वाभावादेव वा । वृत्तिविषय इति-समासविषये प्रयुज्यते केवलस्तु न प्रयुज्यत इत्यर्थः ।
प्रावृड्जातेति । इति श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने द्वितीयस्याऽध्या
यस्य प्रथमपादः समाप्तः । मङ्गलमस्तु लेखकपाठकयोः ।
१३-२-१०८। २२-४-९८।३१-२-२१ । ४२-४-९९ । ५२-१-११३ । ६१-२-१। ७ पादपरिसमाप्त्यर्थे श्लोकः ५ ।
www.jainelibrary.org|
Jain Education International
For Private & Personal Use Only