________________
( ९६ )
पाच्छब्दाभावाद् द्व्यङ्गविकलत्वं स्यात् । तर्हि पादमाचष्ट इति वाक्ये पदः पश्यति यद्दर्शितं तत्कथं ? उच्यते - प्रत्यासत्तिन्यायाद्यस्मिन् प्रत्ययेऽकारलोपस्तस्मिन् यथाssदेशोऽपि प्राप्नोति । अत्र तु णावकारलोपः शसि त्वादेशः । " नैकैस्वरस्य " इत्यन्त्यस्वरादिलोपाभावश्च ।
5
C
उदच उदीच् ' । २ । १ । १०३ ॥ उदयतीति ननु णिवर्जनं किमर्थम् न च वाच्यं णिवर्जनाभावे उदीचादेशः स्यात् यतो भवतु उदीचा देशस्तथापि " यन्त्यस्वरादेः " इति लोपे उदयतीति भविष्यति । अत्रोच्यते, विशेषविहितत्वाल्लुकं बाधित्वा प्रथममेवादेशः स्यात्, तथा च सकृद्भते स्पर्धे' इति न्यायात् पश्चादपि न |
6
"
10 'अच्च प्राग्दीर्घश्च' । २ । १ । १०४ || अथ पदमञ्चतीति क्विपि टादावनन्तरपूर्वस्वराभावे दीर्घत्वाभावादेक योग निर्दिष्टत्वादादेशस्याऽप्यभावात् कथं दृषच्चेत्यादि सिध्यतीत्याह- अन्वाचयशिष्टत्वादिति । अथ व्यवहितस्याऽपि कथं न भवति ? सत्यम्, प्राक्रशब्दस्याऽनन्तरार्थत्वादत एव पूर्वशब्दमपास्य प्राक्शब्दोपादानमनन्तरार्थम् । अनु पश्चादाचयनं मीलनमन्वाचयस्तेन शिष्टोऽन्वाचयशिष्टः । दीर्घो न 15 भवतीति - स्थान्यासन्नत्वात् लकारः । दध्ययतीति परत्वात् “ समानानां० ” इति दीर्घ बाधित्वा गुणः ।
' कसुष्ममतौ च ' । २ । १ । १०५ ।। पेचुष्य इति - ' आगमा यद्गुणीभूता' इति, इट्सहितस्य क्वस उष्, उषिति षकारस्य " नाभ्यन्तस्था ० " इति सिद्धे प्रक्रिया - लाघवार्थं पकारकरणम् !
20 श्वन् युवन्मघोनो ङीस्याद्यघुटस्वरे व उ: ' । २ । १ । १०६ ।। ङीग्रहणात् स्यादावघुट्स्वरे लब्धे स्यादिग्रहणमघुट्स्वरस्याऽप्रत्ययत्वशङ्कानिरासार्थम् शङ्का हि कथम् ? ङीप्रत्ययो घुट्स्वरोऽपि प्रत्यय एवेति नाशङ्कनीयं, ङीग्रहणात् । अथाघुडित्यत्र पर्युदासात् स्यादिर्लप्स्य (क्ष्य ) ते तन्न प्रसज्यवृत्तिनिराकरणे हेतोरभावात् । प्रियशुनी - स्त्रियां तु बहुव्रीहौ "नोपान्त्यवतः " इति त्रयाणामपि ङीप्रतिषेधः । 25 उपान्त्यवत्ता च श्वन्शब्दस्य न मन्त० " इति प्रतिषेधादितरयोस्त्वनेनोत्वविधानात् । यत्तु प्रियशुनीति दृश्यते । तत्प्रथममेव यां कर्मधारये । शौवनमिति शुन इदमिति कार्य विकारे तु “ एकस्वरात् ” मयटू स्यात् । अतिश्वानीति - अतिक्रान्तः श्वा
66
6
१ ७-४-४४ । २ ७-४-४३ । ३ १-२-१ । ४ २-३-१५ । ५ २-४-१३ । ६ २-१-१११ । ७ ६-२-४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org