________________
-- (९५)
निति-" नडकुमुद० ” इति मतो, 'असिद्धं बहिरङ्ग 'मित्यकारस्याऽसिद्धत्वान्न धुटस्तृतीयः। न च वाच्यं “ स्वरस्य परे." इति स्थानित्वं तस्याऽसद्विधौ " नै सन्धि०" इति निषेधात्, कान्तिमतीप्रभृति बन्धुमती यावत्सर्वेषु " नद्यां मतुः ” शिम्बीमती " डीनीबेन्धि० ", " गौरादि०" ङी । मधुमती-मध्वादेर्मतुः, हनूमानिति-" अनजिरादि० ” इति दीर्घः।
'मासनिशासनस्य शसादौ लुग्वा' ।२।१।१०० ॥ स्यादाविति, स्यादेरन्यः शसादिर्न सम्भवतीति स्यादावुदाहारि । अथ " संख्यैकार्थाद्” इति शस्सम्भवस्तदाऽऽदिशब्दस्याऽकलादीनामसम्भवेनाऽनर्थक्यम् । यद्वा मण्डूकप्लुतन्यायेन स्यादिरनुवर्तनीयमिति । आदिशब्दस्य व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यते । मासशब्दस्य भ्यामि अनेनाऽन्तलोपेऽसिद्धं बहिरङ्गमिति अकारस्थानित्वेन " सो रुः" 10 रुत्वाभावे, “ धुटैस्तृतीयः” इति दत्वे तु न्यायानित्यत्वाद् माझ्यामिति मन्यते भाष्यकृत् । दुर्गस्तु मास्म्यामिति । निज्म्यामिति-अत्र निश्शब्दे सत्यपि निशाग्रहणं निज्म्यामित्यस्य सिद्ध्यर्थ, निश्शब्दस्य हि भ्यामि निइभ्यामित्येव भवति । क्विबन्तत्वाद्धातुत्वे " यजसृज० " इत्यादिना पत्वप्राप्तेः।
'दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यू- 15 षन्नुदन्दोषन्यकशकन् वा' ।२।१।१०१।। पादपद्शब्दाभ्यामपि पदा पादेनेत्यादि सिद्धं परं पद्शब्दश्वरणवाच्येव पादशब्दस्य त्वनेकार्थस्यापि पदा पादेनेत्यादिसिद्ध्यर्थं पादशब्दोपादानम् । हृदयहृद्भ्यां सिद्धे हृदयोपादानं ऋषौ विशेषार्थ, हृदः हृदयान् ऋषीन् । हृच्छब्दस्तु ऋषिवचनो नाऽस्ति ।
'यस्वरे पादः पदणिक्यघुटि'।२।१ । १०२ ।। पादन्तस्य नाम्न इति- 20 पूर्वसूत्रे नाम्न इत्यधिचक्राणोऽपि नाऽध्याहारि धातोस्तत्राऽसम्भवात् । अत्र तु धातुसम्भवे नाम्न इति विशेषणं चक्रे । स चेति-अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह-निर्दिश्यमानस्येति । त्रिपदी गाथेति " वा पादः” इति ङीः, द्विपदिकामिति" संख्यासमाहारे च० " इति सः । संख्यादेरित्यकल अलोपश्च, ननु “ अवर्णवर्णस्य " इति सिद्धेऽकल्सन्नियोगे किमलोपेन ? सत्यम् । स्थानित्वाभावार्थमन्यथा " स्वरस्य ०" 25 इति स्थानित्वे पाच्छन्दाभावान्न स्यात् पदादेशः । पादमाचष्टे पादयतीति-अत्र व्यञ्जनान्तः पाच्छन्दो लिख्यते सस्वरे तु णिजि अल्लोपे " स्वरस्य.” इति स्थानित्वे
१६-२-७४ । २ ७-४-११० । ३ ७-४-१११। ४ ६-२-७२ । ५ उणा. ३२५ । ६३-२-७८ । ७७-२-१५१।८२-१-७२ । ९२-१-७६ । १०२-१-८७ । ११२-४-६। १२३-१-९९। १३ ७-४-६८। १४ ७-४-११० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org