________________
(९४) 'नाऽऽमन्त्र्ये'।२।१।९२ ॥ आमन्त्र्य इत्येकवचनाद्यत्रैक एवाऽऽमन्त्र्यस्तत्रैवाऽनेन नलोपनिषेधो यत्र बहबस्तत्र न, यथा-हे पश्च पुरुषाः ! इत्यादौ ननु राजनित्यादौ सिलुकः स्थानिवद्भावेन । " अधातुविभक्ति० " इत्यनेन नामत्वाभावे
पूर्वेण प्राप्तिरेव न किं प्रतिषेधेनेत्याह-एतदेवेति । न च वाच्यं सिलुकः स्थानित्वेन 5 " नामसिद्" इति पदत्वं प्राप्नोति, तस्मिंश्च सति नलुग्भविष्यतीति; यतः " स्थानी
वाऽवर्णविधौ " अत्र तु व्यञ्जनलक्षणो वर्णविधिरिति स्थानित्वं न प्रवर्तत इति । ____ 'मावर्णान्तोपान्त्यापश्चमवर्गान्मतोमो वः' । २।१ । ९४ ॥ अत्र मकारावर्णयोरन्तोपान्ताभ्यां सह यथासंख्यं न, “ नोर्यादिभ्यः ” इति निषेधस्य व्यर्थत्वात् , यत ऊर्मिमानित्यत्र मान्तत्वस्य यवमानित्यत्राऽवर्णोपान्तत्वस्याऽभावात् ।
भोगवद गौरिमतोरिति निर्देशाद्वा । बहिरङ्गलक्षणत्वादिति-तद्धितापेक्षत्वेन वृद्धिर्बहि10 रङ्गा तदनपेक्षत्वं वत्वमन्तरङ्गमिति ।
'नाम्नि'।२।१।९५ ॥ नाम द्विविधं, देवदत्तादि निरूढलक्षणाकं, " अधातुविभक्ति०" इति शास्त्रीयं च । तत्र प्रत्यासन्नत्वाच्छास्त्रीयस्यैव ग्रहणे प्राप्ते नामाधिकारेणैव तदर्थस्य लाभानाम्नीत्यतिरिच्यमानमधिकार्थपरिग्रहाय भवत् लौकिकमेव
ज्ञापयतीत्याह-संज्ञायामिति । आसन्दीवानिति-आसं आसिक्रियां नन्दति अणि पृषोद15 रादित्वात् । आसेर्धातोः “ कुमुदा० " इति वाऽऽसन्दी वेत्रासनं साऽत्रास्ति मध्वादिः ।
'चर्मण्वत्यष्टीवच्चक्रीवत्कक्षीवद्रुमण्वत्' । २।१ । ९६ ॥ कक्षाशब्दस्येति-कक्षे भवा, कक्षाय हिता वा, कक्षे साधुर्वा, " दिगादिदेहांशाद्यः” इत्यादिभिर्ये कक्ष्या । लवणस्येति-लुनाति चैरस्य नन्द्याधनः । अत एव गणपाठाण्णत्वम् । उदन्वान्-उदन् भावसामर्थ्यान्नलोपो न अन्यथोदभावो निपात्येत । 20 'राजन्वान् सुराज्ञि'।२।१।९८ । राजन्वान् सुराज्ञीति-शोभननृपती वाच्ये । यदा तु राजन्शब्देन चन्द्रोऽभिधीयते तदा राजवान् देश इत्येव । निपातनस्येष्टविषयत्वात् ।
नोादिभ्यः २ । १ । ९९ ॥ दल्मिमानिति-दल्मिरिन्द्रः प्रहरणविशेषो वा सोऽस्याऽस्ति । तिमिमानिति-" मितिमि० " इति द्वयोरपि निपातनम् , 25 गरुपिच्छं तदस्याऽस्ति । ध्वजित्मानिति-अध्वानं जयति विप् पृषोदरादिः । ककुद्मा
निति-ककते हुलकादुत्प्रत्यये गणे द्विदकारपाठान्मतौ नाऽनुनासिकः । महिष्मा
११--१-२७ । २ १-१-२१ । ३ ७-४-१०९ । ४ २-१-९९ । ५ ६-२-९६ । ६६-३-१२४ । ७उणा ६१३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org