________________
(९३) इति गत्वस्य परेऽसच्चात्तदादेशस्य कत्वस्याऽप्यसत्त्वे व्यङ्गविकलता स्यात् । मांसपिपकिति-नन्वत्र " स्वरस्य ” इति स्थानिवद्भावेन पदान्ते संयोगस्याऽभावात् ककारलोपो न प्राप्नोति । न चाऽसद्विधौ स्थानित्वनिषेध इति वाच्यम् । अस्क्लुगिति वचनात् ? सत्यम् , अस्क्लुकीति ननिर्दिष्टस्याऽनित्यत्वेन स्थानित्वाभावात् प्राप्तिविद्यते; यथा मधुगित्यत्र ।
'पदस्य' ।२।१।८९ ॥ पदान्ते वर्तमानस्येति-पदस्य विशेष्यस्य विशेषणमन्तः" इति परिभाषया पदान्ते इति व्याख्यातम् । भूयानिति-अपदसंज्ञकेऽपि तद्धिते “ अस्वयम्भुवोऽव् ” न, " भूलक च० " इत्यत्रोकारप्रश्लेषात् । विधानं भूमेत्यत्र पदसंज्ञके चरितार्थम् सामर्थ्यान्न भवतीति, अन्यथा प्रक्रियालाघवार्थ अकारमेव विदध्यादित्यर्थः ।
10 'रात्सः ।।२।१।९० ॥ रात्परस्य सस्यैवेति-यद्येवं अविभः अजाग इत्यादि बिभर्तेर्जागर्तेश्च ह्यस्तन्या दिवि, “ हवःशिति ” इति द्वित्वे अत्वे “ प० " इतीत्वे, “ द्वितीय० " इति बत्वे, गुणे च नियमाल्लोपो न प्राप्नोतीति । नैवम् प्रकरणात् पूर्वसूत्रविहितस्यैवाऽयं नियमो न व्यञ्जनादेरित्युत्तरसूत्रविहितस्य, यद्वा सूत्रे द्वितकारनिर्देशो ज्ञातव्यः । द्वितकारनिर्देशेऽपि न कोऽप्युच्चारणकृतो भेदोऽस्ति ततश्च 15 रात्परस्य तकारसकारस्यैव लुब् नाऽन्यस्येति सूत्रार्थः समजनि । यद्येवं तर्हि कीर्तयतेः विपि कीरिति प्राप्नोति । अत्र भाष्य-लोके प्रयुक्तानामिदमन्वाख्यानं लोके च की इत्येव दश्यते न कीरिति । अजर्घा इति-नन्वत्र " सेः रद्धां० ” इति से कि रुत्वे च कर्तव्ये " गडदबा०" इति घत्वस्याऽसत्त्वात् कृते रुत्वे चतुर्थान्तत्वाभावात् कथं घकार: ? सत्यम् , 'असिद्धं बहिरङ्ग' इति भविष्यति ।
'नाम्नोनोऽनह्नः' । २।१।९१ ॥ अत्र रेफेति, नन्वत्र विशेषविधानात् " रो लुप्यरि” इति “ अझैः” इति च रेफरुत्वे एव भविष्यतः किमहन्प्रतिषेधेनेत्याह-असत्त्वादिति । न चैवं, तयोरनवकाशतेत्याह-सावकाशमिति । रेफरुत्वलक्षणं । सम्बोधने इति-" नाऽऽमन्त्र्ये ” इति नलोपप्रतिषेधात् । अहन्नहितमिति-लक्षणप्रतिपदोक्तयोरिति प्रतिपदोक्तस्यैवाऽहन्शब्दस्य निषेध इत्यत्र प्राप्तिः। परं नाम्न इति 25 व्यावृत्या निषिध्यते । वृत्रहम्यामिति-धातुमात्राश्रितत्वेन तोऽन्तोऽन्तरङ्गो बाह्यस्याऽऽद्यपेक्षणान्नलोपो बहिरङ्गः ।
20
१७-४-११०।२७-४-११३।३७-४-७०।३ अ ७-४-४१।४४-१-१२।५४-१-५८ । ६४-१-४२ । ७ ४-३-७९ । ८२-१-७७ । ९२-१-७५ । १०२-१-७४ । ११ २-१-१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org