________________
( ९२ ) धुट्पदान्त इत्यनेन सह यथासंख्यमभिप्रेतं स्यात्तदा “ ऋत्विज्० " इत्यधिकारे जग्रहणं कृत्वा गत्वं विदध्यादिति । अथाऽत्र सूत्रे किमर्थमादेश द्वयविधानं यावता कविधानं गविधानं वा क्रियतां, यथालक्षणं कस्य गत्वे गस्य कत्वे च सर्वकार्यसिद्धेः । सत्यम् , गाभावे लग्नादयः काभावे पक्कादयो न सिध्येयुरिति कगग्रहणम् । 5 'यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः' ।२।१।८७॥ क्तिरेव धुडिति-" तेहादिभ्यः" इति नियमात् क्तौ इडभाव इत्यर्थः । ननु यङ्लुबन्तयोरनयोरन्योऽपि तिवादिधुट सम्भवति तत्कथं क्तिरेव धुडिति ? सत्यम् , यङ्लुबन्तयोरनयोर्धातुपारायणिकानामेव मते प्रयोग इष्यते न वैयाकरणानामिति क्तिरेवे
त्युक्तम् । साहचर्यार्थमिति-न चाऽऽत्मनेपदानित्यत्वज्ञापनार्थं पुनः पाठ इति वाच्यं, 10 तदा ह्यात्मनेपदिष्वेव पुनः पठ्येत । नाऽप्येकस्य ट्वानुवन्धत्वादथुर्भवत्यन्यस्य नेति
वाच्यं यतः द्वनुबन्धादपि " असरूपो०” इति सूत्रादुत्सर्गः प्रवर्तिष्यते तस्मादेकेनाऽपि धातुनाऽर्थभेदेन प्रयोगद्वयं सिध्यति परं साहचर्याय द्विः पाठ इति । कथमसृगितिनपूर्वस्य सृजेः क्विबन्तस्य षत्वेन भाव्यं तत्कथं गत्वमित्याह-औणादिकस्येति
अस्यत इति न सुज्यत इति वा " *धिपृथि० " इति किदजि बाहुलकादेकत्राऽस्य 15 ऋत्वेऽन्यत्र जकाराकारयोलोपे चाऽसृजशब्दसिद्धिः। पथिप्राच्छाविति-पन्थानं पृच्छतः __ " दिद्युद्" इति क्विन्, धुटि पदान्ते च पूर्वाण्येवोदाहरणानि व्यावृत्तौ तु विशेषः ।
स्वमते तु पथिप्राशावित्याद्येव भवति । ___'संयोगस्यादौ स्कोलक्' । २।१। ८८ ॥ संयुज्यन्ते वर्णा अत्रेति व्यञ्ज
नाद् घजि संयोगः । स च वैयाकरणसम्प्रदायाद् व्यञ्जननैरन्तर्यमुच्यते । ' दन्त्याप20 दिष्टमिति' न्यायात्तालव्यशस्य लुग्दर्शितः दन्त्यस्य तु सस्याऽवावगित्यत्र ककुङ् श्वकुकिति पठितस्य वस्केज्ञेय इति । समुदायस्यैव लोपं विदध्यादिति-कया युक्त्या संयोगेति प्रथम, पदस्येति द्वितीयं अन्ते चेति तृतीयं सूत्रं कुर्यात् । तत्राऽऽद्यस्याऽर्थःधुटि प्रत्यये संयोगादिस्थयोः सकारककारयो ग् भवति । द्वितीयस्याऽर्थः पदान्ते वर्त
मानस्य सकारककारादिसंयोगस्य सकलस्याऽपि लुक् । तृतीयस्याऽर्थः-पदस्येत्यतः 25 पदान्ते इत्यनुवर्तते । ततः पदान्ते संयोगसम्बन्धिनोऽन्तस्य लुग्भवतीत्यकरणाल्लुकः
स्थानित्वं न भवति । अन्ये तु अटिमिति-तन्मतस्वमतयोः “ न बंदनं ० " इत्यत्र विशेषः, तन्मते अतिट्टिपते, स्वमते तु अट्टिटिषत इति । पृथक्स्थातेति-पृथकशब्दः कान्तोऽव्ययम् । न तु "ऋधिपृथि०" इत्यनेनाऽजप्रत्ययान्तो जन्तः । तदा " चेंजः०"
१२-१-६९ । २४-४-३३। ३५-१-१६ । ४ उणा ८७४ । ५५-२-८३ । ६४-१-५ ७ उणा ८७४ । ८२-१-८६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org