________________
(९१) समासस्तदापि " वृत्त्यन्तोऽसषे” इति पदत्वाभाव इत्युभयथाऽप्यपदत्व लिह इत्यस्येति । औजढदिति-द्वित्वे स्थानित्वादिति-ननु कथमत्र स्थानित्वम् । अकारेण सह तेति द्विवंचने कर्तव्ये पूर्वविधित्वाभावात् ? सत्यम् , निमित्तापेक्षयाऽपीह प्राग्विधिरिष्यते । यद्वा ह्त् इत्यनयोः स्थानित्वमस्त्येव । अवयवयोश्व समुदायोपचारात् हत् इत्यस्याऽपि स्वरादेशः स्थान्यन्तस्य प्राविधित्वमिति । यदि निमित्तापेक्षया 5 प्राविधिरिष्यते, तर्हि नयनमित्यत्र स्वरादेशस्य गुणस्य स्थानित्वेऽयादेशो न प्राप्नोति ? सत्यम् , निमित्तापेक्षया प्राविधित्वं प्रायिकमिति ।
'भ्वादेर्दादेघः' ।२।१। ८३ ॥ यदि भ्वादेरित्यस्य दादेरिति समानाधिकरणं विशेषणं भवेत् तदाऽदुग्धेत्यादयोऽडागमे कृते दादित्वाभावान सिध्येयुरिति भ्वादेरित्यस्य दादेरिति व्यधिकरणं विशेषणं व्याख्यातम् । नन्वत्र सर्वेष्वपि प्रयोगेषु 10 घस्य गः क्रियते ततो ग एव क्रियतां, किं घकरणेनेति ? सत्यम् , गकारे क्रियमाणे चतुर्थान्तत्वाभावादधोगित्यादौ " गडदबा० " इत्यादिचतुर्थत्वं न स्यात् । ___ 'मुहद्रुहष्णुहष्णिहो वा' ।२।१। ८४ ॥ चेलस्निक-चेलं स्निह्यति सिञ्चतीत्यर्थः । सेचनार्थत्वं त्वस्य “ स्वस्नेहना.” इति सूत्रे स्निह्यतेऽनेनेति स्नेहनमुदकादीति दर्शनाद्विज्ञायत इति । ननु किं मुहादयः स्वरूपेणोपादीयन्ते 15 मुहादेरित्येवोच्यताम् ? न चैवं कृतेऽधिकानां प्रसङ्गस्तदनन्तरं वृत्करणात् , तद्धि पुषादिवन्मुहादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुहादेरिति ।
'नहाहोर्धतौ'। २ । १। ८५ ॥ ब्रूस्थानस्येति-अन्यस्याऽसम्भवात , आत्थेति-नन्बाहेरपि धकारे " अंघोषे प्रथम०" इति तकारे कृते आत्थेति सिध्यतीत्युभयोरपि धकार एव क्रियतां किं तकारकरणेन ? न च सिवस्थविधानादेव धत्वं न 20 भविष्यति, अन्यथा सिवो धत्वमेव विदध्यादिति वाच्यम् , यतो लाघवार्थं तद्भवेत, अन्यथा " बेगः पञ्चानां० " इत्यत्र सिवो ध इति सूत्रान्तरे कृते गौरवं स्यात्तस्मात् सूक्तं धत्वनिवृत्त्यर्थमिति ।
'चजः कगम्'।२।१। ८६ ॥ धुट्पदान्त इत्यस्य चजाम्यां कगाभ्यां च प्रत्येकमभिसम्बन्धाद्यथासंख्याभावः, प्रत्येकमभिसम्बन्धश्च "प्रागिनात् ", " स्त्यादि- 25 विभक्तिः” इति सूत्रनिर्दिष्टकत्वगत्वरूपज्ञापकात् । “ धाय्यापाय्य० " इति सूत्रे ऋक् इति निर्देशात् , “ रोगाट्टो रक्ते” इति रक्तनिर्देशाच्च यथासंख्याभावः । किश्च यदि
११-१-२५।२२-१-७७ । ३५-४-६५।४१-३-५० । ५४-२-११८।६२-१-४८ । ७ १-१-१९ । ८५-१-२४ । ९६-२-१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org